शिविरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिविरम्, क्ली, (शेरते राजबलान्यत्र । शीङ स्वप्ने + बाहुलकात् किरच्प्रत्ययेन साधु । इत्युणादि- वृत्तौ उज्ज्वलदत्तः । १ । ५४ ।) निवेशः । इत्य- मरः ॥ द्वे आगन्तुकसैन्यवासे । कटके इत्यन्ये । नृपस्य मूलस्थाने इत्येके । इति भरतः ॥ “शिविरन्तु निवेशे च क्लीवन्तु युद्धवेश्मनि ॥” इत्युणादिकोषः ॥ * ॥ अथ शिविरलक्षणम् । श्रीभगवानुवाच । “शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम् ॥ युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव च ॥” तत्र विहितनिषिद्धकाष्ठे यथा, -- विश्वकारुरुवाच । “कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो । अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि ॥ श्रीभगवानुवाच । आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥ प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दमाधवी केतकी तथा ॥ नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् । अपराजिता च सुभदा तेषामुद्यानमीप्सितम् ॥ पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ॥ ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ॥ वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ॥ भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥ सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् । शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम् ॥ धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥ वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः । पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः
