सामग्री पर जाएँ

शिशिरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशिरः, पुं, (शशति इतस्ततो गच्छतीति । शश + किरच् प्रत्ययेन साधुः ।) हिमः । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११० । “शब्दातिगः शब्दसहः शिशिरः शर्व्वरीकरः ॥”)

शिशिरः, पुं, क्ली, (शशति गच्छति वृक्षादिशोभा यस्मात् । शश + “अजिरशिशिरशिथिलेति ।” उणा ०१ । ५४ । इति किरच्प्रत्ययेन साधुः ।) ऋतुविशेषः । इत्यमरः ॥ स तु माघफाल्गुन- मासद्वयात्मकः । तत्पर्य्यायः । कम्पनः २ शीतः ३ हिमकूटः ४ कोटनः ५ । कचित् पुस्तके कोटनस्थाने कोडव इति पाठः । इति राज- निर्घण्टः ॥ तत्कालीनजलगुणा जलशब्द द्रष्टव्याः ॥ * ॥ तत्र जातफलम् ॥ “मिष्टान्नभोगी मधुरप्रणादी कलत्रपृत्त्रादियुतः क्षुधार्त्तः । क्रोधी सुधीश्चारुकलेवरश्च यस्य प्रसूतिः शिशिराभिधाने ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र वर्णनीयानि । करीयधूपः कुन्दः पद्मनाहः शिशिरोत्कर्षश्च । इति कविकल्पलता ॥ * ॥ अस्य गुणाः ! “शिशिरं शीतलं वृष्यं शीतं वातप्रकोपणम् ।” इति राजवल्लभः ॥ अपि च । “शिशिरः शीतलोऽतीवरूक्षो वाताग्नि- वर्द्धनः ।” इति भावप्रकाशः ॥

शिशिरः, त्रि, (शश प्लुतगतौ + किरच्प्रत्ययेन साधुः ।) शीतगुणयुक्तः । यथाह अमरः । “शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्य- लिङ्गकाः ॥” (यथा, रघुः । १४ । ३ । “आनन्दजः शोकजमश्रु वाष्प- स्तयोरशीतं शिशिरो बिभेद ॥)

"https://sa.wiktionary.org/w/index.php?title=शिशिरः&oldid=171170" इत्यस्माद् प्रतिप्राप्तम्