शिशुकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिशुकः, पुं, (शिशोरिव प्रतिकृतिः । शिशु + इवार्थे कन् ।) जलजन्तुविशेषः । शुशुक् इति भाषा । तत्पर्य्यायः । उलूपी २ । इत्यमरः ॥ द्वे उपल इति ख्याते अति चञ्चले मत्स्ये । शिशु माराकृतिर्म्मत्स्यभेदः उलूपी । इति कलिङ्गा- दयः । शोशु इति ख्यातो मत्स्यविशेषः उलूपी- त्यन्ये । भा~गाल इति ख्याते इत्येके । शिशुमार एव उच्यते इति सर्व्वस्वम् । तथा च रत्न- कोषादौ ‘चुलुपी शिशुमारः स्यादुलूपी शिशुक- स्तथा ।’ ऊर्द्ध्वं लुम्पति भ्राम्यति उलूपी लुप ऌ शपञौ छेदे उत्पूर्व्वः ग्रहादित्वाण्णिन् मनी- षादित्वात् तलोपः लोर्दीर्घश्च द्विह्रस्वोकारो- ऽपि । ‘शिशुकस्तूलुपी बालः प्रोष्ठी तु सफरी द्वयोः ।’ इति वाचस्पतिः । चुलुपीति चवर्गादि- पाठ इति केचित् । शिशुरिव शिशुकः । ‘शिशुकः शिशुमारेऽपि बालकोलुपिनोरपि ॥’ इति रुद्रः ॥” इति भरतः ॥ अपि च । “उलुपी स्यादुलुपीव चुलुम्पी चुलुकी तथा । शिशुकश्चेति पर्य्यायः शिशुमाराकृतौ झसे । कैश्चिदुत्पलमत्स्ये तु पर्य्यायोऽयं निगद्यते ॥” इति शब्दरत्नावली ॥ “शिशुकः शिशुमारश्च स च ग्राहो वराहकः ॥” इति राजनिर्घण्टः ॥ * ॥ शिशुमारः । (यथा, महाभारते । १२ । २९ । २७ । “कूर्म्मान् कर्कटकान् नक्रान् मकरान् शिशु- कानपि ॥”) बालकः । इति मेदिनी ॥ (यथा, कथासरित्- सागरे । २१ । ३९ । “शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता । द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ॥”) वृक्षविशेषः । इति हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिशुकः [śiśukḥ], 1 A child, an infant; को$प्येष वीरशिशुकाकृति- रप्रमेयसामर्थ्यसारसमुदायमयः पदार्थः Mv.2.39.
The young of any animal.
A tree.
A porpoise.
A fish resembling a porpoise.
