सामग्री पर जाएँ

शिशुमारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमारः, पुं, (शिशून् मारयतीति । मृ + णिच् + अण् ।) जलजन्तुभेदः । शो~ष इति शुशुक् इति च ख्यातः । इत्यमरभरतौ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥” * ॥) अस्य पर्य्यायः शिशुकशब्दे द्रष्टव्यः । अस्य गणना गुणाश्च पादिशब्दे द्रष्टव्याः ॥ तारात्मकाच्युतः । इति मेदिनी ॥ तद्विवरणं यथा, -- “शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशञ्च तस्यापि शृणुष्व मुनिसत्तम ॥ यदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुच्यते । तावत्यश्चै व तारास्ताः शिशुमाराश्रिता दिवि ॥ तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु । उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरो हनुः ॥ यक्षोऽधरश्च विज्ञेयो धर्म्मो मूर्द्धानमाश्रितः । हृदि नारायणश्चास्ते अश्विनौ पूर्व्वपादयोः ॥ वरुणश्चार्य्यमा चैव पश्चिमे तस्य सक्थिनी । शिश्नं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥ पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ इत्येष सन्निवेशोऽयं पृथिव्यां ज्योतिषां तथा । द्वीपानामुदधीनाञ्च पर्व्वतानाञ्च कीर्त्तितः ॥ वर्षाणाञ्च नदीनाञ्च ये च तेषु वसन्ति वै । तैषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ॥ पदन्तु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्व्वताब्ध्यादिसंयुता ॥ ज्योतींषि विष्णुर्भुवनानि विष्णु- र्वनानि विष्णुर्विदिशो दिशश्च । नद्यः समुद्राश्च स एव सर्व्वं यदस्ति यन्नास्ति च विप्रवर्य्य ॥ ज्ञानस्वरूपो भगवान् यतोऽसा वशेषमूर्त्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविज्म्भितानि ॥ यदा हि शुद्धं निजरूपसर्व्वं कर्म्मक्षये ज्ञानमयास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ महोघटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽप्यनुः । जनैः स्वकर्म्मस्तिमितात्मनिश्चयै- सलक्ष्यते वस्तु किमत्र वस्तु ॥” इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥ अपि च । “केचिदेतज्ज्योतिरनीकं शिशुमार- संस्थानेन भगवतो वासुदेवस्य योगधारणाया- मनुवर्णयन्ति । यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य घ्रुव उपकॢप्तः । तस्य लाङ्गूले प्रजापतिः अग्निरिन्द्रो धर्म्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः ॥ तस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्यु- दगयनानि दक्षिणपार्श्वे नक्षत्राणि उपकल्प- यन्ति । दक्षिणायनानि तु सव्ये यथा शिशु- मारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयो- रप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आंकाशगङ्गा चोदरतः । पुनर्व्वसुपुष्यौ दक्षिण- वामयोः श्रोण्योराद्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासि- कयोर्ययासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयो- र्लोचनयोर्धनिष्ठामूलञ्च दक्षिणवामयोः कर्णयो र्मघादीन्यष्टनक्षत्राणि दक्षिणायनानि वाम- पार्श्ववध्निषु युञ्जीत । वध्निषु अस्थिषु । तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्वेषु प्राति लोम्येन युञ्जीत । शतभिषा ज्येष्ठे स्कन्धयो- र्दक्षिणवामयोर्न्यसेत् । उत्तराहनावगस्त्यः अध- राहनौ यमः मुखे चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारा- यणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्व्वाङ्गेषु रामसु सर्व्वे तारागणाः । एतदुहैव भगवतो विष्णोः सर्व्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति । ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥” इति श्राभागवते ५ स्कन्धे शिशुमारसंस्थानम् २३ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शिशुमारः&oldid=171189" इत्यस्माद् प्रतिप्राप्तम्