शिष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) शेषति । इति दुर्गादासः ॥
शिष, ऌ घ औ विशेषे । इति कविकल्पद्रुमः ॥ (रुधा०-पर०-सक०-अनिट् ।) विशेष उप- रञ्जनम् । ऌ, अशिषत् । ध, विशिनष्टि स्मरं मूर्त्त्या यः । इति हलायुधः । मूर्त्तिविशिष्टं करोति इत्यर्थः । औ, शेष्टा । इति दुर्गादासः ।
शिष, कि असर्व्वोपयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे-भ्वा०-सक०-सेट् । असर्व्वोप- योगः परिशेषीकरणम् । कि, शेषयति शेषति यशोराशिं लोकः अवशिष्टं करोति इत्यर्थः । वेरतिशायने शिष किरनुवर्त्तते । कि, विशेषयति विशेषति सम्पत्त्या भूपं विधिः । इति दुर्गा- दासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिष¦ बधे भ्वा॰ पर॰ सक॰ सेट्। शेषति अशेषीत्।
शिष¦ परिशेषीकरणे वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। शेषयति ते शेषति अशिशीषत् त अशेषीत्।
शिष¦ विशेषे रुधा॰ पर॰ सक॰ अनिट्। शिनष्टि ऌदितशिषत् शेष्टा।
