शिष्टः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिष्टः, त्रि, (शास + क्तः । “शास इदङ्हलोः ।” ६ । ४ । ३४ । इति उपधाया इकारः । “शासिवसिघसीनाञ्च ।” ८ । ३ । ६० इति सस्य षः ।) शान्तः । सुबुद्धिः । धीरः । तस्य लक्षणं यथा, -- “न पानिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥” इति महाभारते अश्वमेधपर्व्व ॥ अपिच । “धर्म्मो नाभिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्ठा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणा- न्विताः ॥” इति कौर्म उपविभागे २४ अध्यायः ॥ * ॥ अन्यच्च । “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रचक्षते । मन्वन्तरेषु ये शिष्टा इहतिष्ठन्ति धार्म्मिकाः ॥ मनुः सप्तर्षयश्चव लोकसन्तानकारणात् । तिष्ठन्तीह च धर्माथं तान् शिष्टान् परिचक्षते । तैः शिष्टैः पालितधर्म्मः स्थाप्यते वै युगे युगे ॥” इति मात्स्ये १२० अध्यायः ॥ (अवशिष्टः । यथा, गीतायाम् । ४ । ३० । “यज्ञशिष्टामृतभुजो यान्ति ब्रह्मसनातनम् ॥”
