शिष्टाचारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिष्टाचारः, पुं, (शिष्ट आचारः । शिष्टानामा- चारो वा ।) साधुव्यवहारः । यथा, -- “ततः स्मार्त्तः स्मृतो धर्म्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया । शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः ॥ दानं यत्यं तपोऽलोभो विद्येज्या पूजनं दमः । अष्टौ वानि चरित्राणि शिष्टाचारस्य लक्ष- णम् ॥ शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्व्वेषु शिष्टाचारस्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु धर्म्मः स साधुसम्मतः ॥” इति मात्स्ये १२० अध्यायः ॥
