सामग्री पर जाएँ

शिह्लक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिह्लकः, पुं, (शिह्ल एव । स्वार्थे कन् ।) गन्धद्रव्य- विशेषः । शिलारसः । शिह्ला इति लोवान् इति च भाषा । तत्पर्य्यायः । कपिनामा २ कपिः ३ तैलम् ४ कृत्रिमम् ५ कपिलः ६ चला ७ तुरुष्कः ८ मुक्तिमुक्तः ९ पिण्डातः १० वरः ११ । इति रत्नमाला ॥ पिण्डकः १२ सिह्वः १३ यावनः १४ । इत्यमरः ॥ अस्यानुलेपनगुणाः । “शिह्नकः परमा मांसी देवदारु मुरा नखम् । सर्व्वेऽमी परमा लक्ष्मी रक्षोघ्ना ज्वरनाशनाः ॥” रौक्ष्यघ्ना इति वा पाठः । इति राजवल्लभः ॥ अन्यत् तुरुष्कशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=शिह्लक&oldid=171209" इत्यस्माद् प्रतिप्राप्तम्