शीतकालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतकालः, पुं, (शीतस्य कालः ।) हिम ऋतुः । स तु अग्रहायणपौषमासद्वयकालात्मकः । तत्- पर्य्यायः । शीतकः २ । इति मेदिनी ॥ हेमन्तः ३ । इत्यमरः ॥ सहाः ४ । इति जटाधरः ॥ हैमनः ५ । इति शब्दरत्नावली ॥ यथा, -- “कूपोदकं वटच्छाया श्यामा स्त्री इष्टकागृहम् । शीतकाले भवेदुष्णं उष्णकालेच शीतलम् ॥” इति चाणक्यम् ॥
