सामग्री पर जाएँ

शीतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शीतम्, क्ली, (श्यै ङ गतौ + क्तः । “द्रवमूर्त्ति- स्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसार- णम् । “हलः ।” ६ । ४ । २ । इति दीर्घः ।) हिमगुणः । इत्यमरः ॥ (यथा, मनुः । ११ । ११४ । “उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्व्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥”) जलम् । इति शब्दमाला ॥ त्वचम् । इति राज- निर्घण्टः ॥ शीतं तुषारवानीरबहुवारद्रुमेषु च इति भरतधृताजयः ॥

"https://sa.wiktionary.org/w/index.php?title=शीतम्&oldid=171234" इत्यस्माद् प्रतिप्राप्तम्