शीतलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतलः, पुं, अशनपर्णी । इत्यमरः ॥ अर्हद्विशेषः । स तु चतुविंशतितीर्थङ्करमध्ये दशमतीर्थङ्करः । इति हेमचन्द्रः ॥ व्रतविशेषः । स तु मेष- संक्रान्त्यां कर्त्तव्यः । चन्द्रः । इति शब्दचन्द्रिका ॥ चम्पकः । कर्पूरभेदः । रालः । इति राज- निर्घण्टः ॥
शीतलः, त्रि, (शीतोऽस्यास्तीति । शीत + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) शीत- गुणविशिष्टः । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतः ६ हिमः ७ । इत्यमरः ॥
