शीतलाषष्ठी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतलाषष्ठी, स्त्री, (शीतला षष्ठी ।) माघशुक्ला षष्ठी । यथा, -- “प्रसूत्या द्वादशे मासि पूज्यापत्यविवृद्धये । सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥ वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता । आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी तथा ॥ भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा । नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी पौषे मास्यन्नरूपा च शीतला तपसि स्मृता । गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकी- र्त्तिता ॥” इति स्कन्दपुराणम् ॥
