शीर्षकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीर्षकम्, क्ली, (शीर्षे कं सुखमस्मात् ।) शिरो- रक्षणसन्नाहः । टोप् इति भाषा । तत्- पर्य्यायः । शीर्षण्यम् २ शिरस्त्रम् ३ । इत्यमरः ॥ शिरोऽस्थि । इति राजनिर्घण्टः ॥ जयपराजय- पत्रम् । यथा, याज्ञवल्क्यः । “तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥” विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ॥ म- हाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्य चतुष्पादः जयपराजयलक्षणः । तेन दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड- भागीत्यर्थः । इति दिव्यतत्त्वम् ॥
