शीर्षण्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीर्षण्यः, पुं, (शिरसि भवः । शिरस + “शरीरा- वयवाच्च ।” ४ । ३ । ५५ । इति यत् । “वा केशेषु ।” ६ । १ । ६१ । इत्यस्य वार्त्तिकोक्त्या शीर्षन्नादेशः ।) विशदकचः । तत्पर्य्यायः । शिरस्यः २ । इत्यमरः ॥ द्वे स्वतः स्नानादिना वा निर्म्मले अन्योन्यासंपृक्ते केशे । शीर्षे भवं शीर्षण्यं ढघे कादिति यः । पाददन्तेत्यादिना शीर्षस्य शीर्षणादेशः । इति भरतः ॥ (शिरसि- निबद्धे, त्रि । यथा, ऋग्वेदे । १ । १६२ । ८ । “शीर्षण्या रसना रज्जुरस्य ।” “शीर्षण्या शिरसि बद्धा रसना मेखला इव ।” इति तद्भाव्ये सायणः ॥ * ॥ श्रेष्ठे च त्रि । यथा, भागवते । ५ । ४ । १५ । “यद्यच्छीर्षण्याचरितं तत्तदनुवर्त्तते लोकः ॥” शीर्षण्यः श्रेष्ठस्तेनाचरितम ।” इति तट्टीका ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीर्षण्यः [śīrṣaṇyḥ], [शीर्षन्-यत्] a.
Clean or unentangled hair.
White.
Produced in the head.
Beneficial to the head.
Chief; यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः Bhāg.5.4.15.
ण्यम् A helmet; वरशीर्षण्यशीर्षाणः Śiva B.14.49.
A head-dress (hat, cap &c.).
Ved. A head-rope.
