शीर्षोदयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीर्षोदयः, पुं, (शीर्षे शीर्षदेशे उदयो यस्य ।) मिथुन-सिंह-कन्या-तुला-वृश्चिक-कुम्भ-मीन- लग्नरूपः । यथा, -- “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिना- त्मकाः ॥ निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा ॥ शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः ॥” इति ज्योतिस्तत्त्वम् ॥
