सामग्री पर जाएँ

शुक्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुक्तम्, क्ली, (शुच क्लेदे + क्तः ।) मांसम् । इति शब्दचन्द्रिका ॥ काञ्चिकम् । इति हारावली ॥ द्रवद्रव्यविशेषः । यथा, -- “कन्दमूलफलादीनि सस्नेहलवणानि च । यत्तद्द्रव्येऽभिसूयन्ते तच्छ्रक्तमभिधीयते ॥” अस्य गुणाः । “शुक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लधु । रूक्षं कृम्युदरानाहशोथार्शोविषकुष्ठनुत् ॥” इति राजनिर्घ ण्टः ॥ * ॥ शुक्त यन्मधुरं कालवशादम्लतां गतम् । इति प्रायश्चित्तविवेकः ॥ तस्य भक्षणनिषेधो यथा । यमः । “अपूपाश्च करम्भाश्च धाना वटकशक्तवः । शाकं मांसमपूपञ्च सूपं कृशरमेव च ॥ यवागुं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् । सर्व्वं पर्य्युषितं भक्ष्यं शुक्तञ्च परिवर्ज्जयेत् ॥” तत्प्रतिप्रसवो यथा । मनुः । “दधिभक्ष्यञ्च शुक्तेषु मर्व्वञ्च दधिसम्भवम् ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च मनुः । २ । १७७ “वर्ज्जयेन्मधुर्मासञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥” “यानि स्वभावतो मधुरादिरसानि कालवशेन उदकवासादिना चाम्लवन्ति तानि शुक्तानि ।” इति तट्टीकायां कुल्लूकभट्टः

शुक्तम्, त्रि, (शुच् + क्तः ।) निष्ठुरम् । इति मेदिनी ॥ पूतम् । अम्लम् । इति विश्वः ॥ श्लिष्टम् । निर्ज्जनम् । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=शुक्तम्&oldid=171462" इत्यस्माद् प्रतिप्राप्तम्