सामग्री पर जाएँ

शुक्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुक्तिः, स्त्री, (शुच् + क्तिन् ।) जलजन्तुविशेषः । झिनुक् इति भाषा । तत्पर्य्यायः । मुक्ता- स्फोटः २ । इत्यमरः ॥ शुक्तिका ३ । इति जटाधरः ॥ मुक्तिप्रसूः ४ महाशुक्तिः ५ तौतिकः ६ मौक्तिकप्रसवा ७ मौक्तिकशुक्तिः ८ मुक्तामाता ९ । अस्या गुणाः । कटुत्वम् । स्निग्धत्वम् । श्वासहृद्ग्रहनाशित्वम् । शूल- प्रशमनत्वम् । रुच्यत्वम् । मधुरत्वम् । दीप- नत्वञ्च । इति राजनिर्घ ण्टः ॥ कपालखण्डम् । शङ्खः । शङ्खनखः । नखी । अश्वावर्त्तः । अर्शोरोगः । इति मेदिनी ॥ चक्षूरोगविशेषः । इति हेमचन्द्रः ॥ तद्विवरणं यथा, -- “प्रस्तारिशुक्लक्षतजोऽधिमांस- स्राग्वर्म्मसंज्ञाः खलु पञ्च रोगाः । स्याच्छक्तिका सार्ज्जुनपिष्टकाख्या जालं शिराणां पिडिकाश्च तासाम् ॥ रोगा वलासग्रथितेन सार्द्ध- मेकादशोक्ताः खलु शुक्रभागे ॥” शुक्तिमाह । “श्यावाः स्युः पिशितनिभाश्च बिन्दवोऽयं शुक्लाभाः शितनिचिताः स शुक्तिसंज्ञः ।” श्यावा इत्यादि वर्णत्रयविकल्पो बोद्धव्यः ॥ * ॥ अथास्याश्चिकित्सा । “सेक आश्चोतनं पिण्डीविडालस्तपंणं तथा । पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥” इति कल्पविधिः ॥ तत्र सेकविधिर्यथा, -- “सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे । सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ॥ मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलम् एरण्डदलमूलत्वक्शृतमाजं पयो हितम् । सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १ ॥ यष्टीगैरिकसिन्धूत्थदार्व्वीतार्क्षैः समांसकैः । जलपिष्टैर्वहिर्लेपः सर्व्वनेत्रामयापहः ॥” २ ॥ इति भावप्रकाशः ॥ * ॥ कर्षद्वयपरिमाणम् । इति शब्दमाला ॥ चतु- स्तोलकपरिमाणम् । तत्पर्य्यायः । अष्टमिका २ । इति वैद्यकपरिभाषा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुक्तिः [śuktiḥ], f. [शुच्-क्तिन् Uṇn.4.191]

An oyster shell, pearl-oyster; पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ M.1.6; Bh.2.67; R. 13.17.

A conchshell.

A small shell, muscle.

A portion of the skull.

A curl of hair on a horse's breast (or neck); आवर्तिनः शुभफलप्रदशुक्तियुक्ताः Śi.5.4; see Malli. thereon.

A kind of perfume.

A particular weight equal to two Karṣas.

Hemorrhoids.

A bone; मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः Bhāg.6. 1.13. -Comp. -उद्भवम्, -जम् a pearl. -कर्ण a. shelleared. -खलति a. completely bald. -चूर्णकः a variety of inferior gems looking like an oyster shell; Kau. A.2.11. -पुटम्, -पेशी a pearl-oyster shell.-बी(वी)जम्, -मणिः a pearl. -वधूः the pearloyster. -स्पर्शः dusky spots on a pearl.

"https://sa.wiktionary.org/w/index.php?title=शुक्तिः&oldid=336504" इत्यस्माद् प्रतिप्राप्तम्