शुक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुक्रम्, क्ली, (शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।” उणा० २ । २८ । इति रन्प्रत्ययेन साधु ।) मज्जजातधातुः । तत्पर्य्यायः । पुंस्त्वम् २ रेतः ३ बीजम् ४ वीर्य्यम् ५ पौरुषम् ६ तेजः ७ इन्द्रि- यम् ८ अन्नविकारः ९ मज्जारसः १० रोह- णम् ११ बलम् १२ । इति राजनिर्घ ण्टः ॥ तस्योत्पत्तिर्यथा, -- “रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः ॥ तस्य स्वरूपं यथा, -- “शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् । गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः ॥” जीवस्याश्रय उत्तम इति । यत आह । “जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् ॥” * ॥ गर्भसंजननशुक्रस्य लक्षणं यथा, -- “स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च । शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत् ॥” तस्य स्थानमाह । प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप- मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६ छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म- मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट- कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४ शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७ मद्गु-६८ कादम्ब-६९ वलाका-७० वक- मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३ गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर- सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८ दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१ तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त- निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५ अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु- गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क- पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु- नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७ सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त- पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवा रपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९ शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१ परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु- मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६ एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य- वला १०९ विशेषतः पीतवला ११० अश्वगन्धा १११ प्रसारणी ११२ माषपर्णी ११३ रुदन्ती वृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः ११६ । इति राजवल्लभात् सगृहीतम् ॥ * ॥ नेत्ररोगविशेषः । इति मेदिनी ॥ अस्य विवरणं शुक्लशब्दे द्रष्टव्यम् ॥
