शुक्ल

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्लम्, क्ली, (शुच शौचे + “ऋज्रेन्द्रेति ।” उणा० २ । २८ । इति रन् प्रत्ययेण माधु ।) रजतम् । इति मेदिना ॥ नवनातम् । इति चब्दचन्दिका । अक्षिरोगविशेषः । इति जटाधरः ॥ स तु चक्षुःशुक्लभागजरोगः । तद्विरणं यथा, -- “प्रस्तारिशुक्लक्षतजाधिमांस- साग्वर्म्मसंज्ञाः खलु पञ्च रोगाः ॥” तत्र शुक्लमाह । “सुश्वे तं मृदुशुक्लार्म्मं शुक्लं तद्वर्द्धते चिरात् ॥” अस्य चिकित्सा । “भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ स्नानं कृष्णतिलैर्व्वापि चक्षुष्यमनिलापहम् । आमलैः सततं स्नानं परदृष्टिबलापहम् ॥ शुण्ठीनिम्बदलैः पिण्डीसुखोष्णास्वल्पसैन्धवा । धार्य्या नेत्रेऽनिलश्ले ष्मशोथकण्डूव्यथाहरी । त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा ॥” अन्यदौषधं शुक्तिशुक्रशब्दयोर्द्रष्टव्यम् । काञ्जि- कादि । यथा, -- “कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्ज येत्कांस्यं कार्त्तिके शुक्लसन्धि- तम् ॥” इति श्रीगोपालभट्टविलिखिते भगवद्भक्ति- विलासे १६ विलामः ॥ शुक्लं काञ्जिकादि- पर्य्युषिताम्लद्रष्यं मन्धितञ्च वर्जयेत् । इति श्रीजीवगोस्वामिकृततट्टीका दिद्गर्शनी ॥

शुक्लः, पुं, (शुच + रन् । रस्य लः ।) वर्णविशेषः सादा इति भाषा । तत्पर्य्यायः । शुभ्रः २ शुचिः- ३ श्वेतः ४ विशदः ५ श्येतः ६ पाण्डरः ७ अव- दातः ८ सितः ९ गौरः १० वलक्षः ११ धवलः १२ अर्ज्जुनः १३ । इत्यमरः ॥ श्वेता १४ श्येता १५ श्येनी १६ विषदः १७ मिता १८ अवलक्षः १९ । इति तट्टीका ॥ शितिः २० पाण्डुः २१ । इति शब्दरत्नावली ॥ रामः २२ खरुः २३ । इति जटाधरः ॥ शक्रयोगः । इति मेदिनी ॥ श्वेतेरण्डः । इति राजनिर्घण्टः ॥ शुक्लपक्षः । यथा षट्त्रिंशन्मतम् । “तत्र पक्षावभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥” इति तिथ्यादितत्त्वम् ॥ शुक्लगुणयुक्ते, त्रि ॥ * ॥ शुक्लवस्तूनि यथा, -- “सुधांशूच्चैःश्रवाः शम्भुकीर्त्तिज्योत्स्नाशर- द्घनाः । प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥ सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हली । निर्मोकभस्महिण्डीरचन्दनं करका हिमम् ॥ हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम् ॥ मृणालसिकताहसवककैरवचामरम् । रम्भागर्भं पुण्डरीककेतकीशङ्खनिर्झराः ॥ लोध्रसिंहध्वजच्छत्रचूर्णशुक्तिकपर्द्दकाः । मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥ कैलासकाशकार्पासहासवासवकुञ्जराः । नारदः पारदः कुन्दखटिकास्फटिकादयः ॥” इति श्वेतानि ॥ * ॥ वपुर्महोदधिच्छायं बिभ्रत् सैन्धवकान्तिमान् । स्फाटिकी च लसल्लक्ष्मोः पट्टांशुककटिं वहन् ॥ धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः । अर्जुनद्युतिविद्योतीत्ये वमादि समुन्नयेत् ॥ *” ॥ रक्तश्वेतवाचकानि वस्तूनि यथा, -- “रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्य- कान्ताब्जाः । नवहसमहापद्मार्ककृशोदराः कमलकीलाले ॥” हरिश्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतशत्रं हंसपद्मयोः । सूर्य्यकान्तः स्फटिके सूर्य्यकान्ते च । अब्जः शङ्घाम्बुजयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महापद्मः श्वेतनागे पद्मे च । अर्कः स्फटिक- सूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभि ॥” भानोः परस्मात् सुहृद्रत्नादिभिः सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्रं सूर्य्यकान्तो रविपद्मरागौच । अग्निरत्नं सूर्य्य- कान्तो अग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च जलशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारिशोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमु- दारिशोभा कुमुदस्पर्द्धिशोभा । पक्षे कुमुदारि- रादित्यः ॥ * ॥ पीतश्वेतवाचकानि वस्तूनि यथा, -- “पीतश्वेतौ गौरद्विजराजकपर्द्दशम्भुहरि- तार्क्ष्याः । हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः ॥” गौरः श्वेतपीतयोः । द्विजराजो गुरुचन्द्रयोः । कपर्द्दः शम्भुजटाजूटवराटयोः । शम्भुर्ब्रह्म- त्रिलीचनयोः । हरिः पिङ्गलसिंहयोः । ताक्ष्र्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नोऽयं हैमः । पक्षे हिमस्यायम् । अष्टापदं सुवर्ण- सरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः । “सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः । दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥” तारुकूटो रूप्यसमूहः । पक्षे आरकूटो रीतिः । सुशोभनमर्णः कनकञ्च ॥ * ॥ अथ श्लोकोत्ती- र्णानि । गोपतितार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्यस्तुरङ्गः । वाम- देवगिरिर्मनोज्ञमेरुः कैलासश्च । इति कवि- कल्पलतायाम् २ श्लेषे उद्दिष्टवर्णनं १ कुसुमम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल पुं।

पूर्वपक्षः

समानार्थक:शुक्ल

1।4।12।2।1

ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शुक्ल पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।12।2।1

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल¦ न॰ शुच--लक् कुत्वम्।

१ रजते मेदि॰।

२ नवनीतेशब्दच॰।

३ अक्षिरोगभेदे चक्षूरोगशब्दे

२८

४४ पृ॰ दृश्यम्।

४ श्वेतवर्णे

५ श्वेतवर्णयुते त्रि॰ अमरः।

६ शुद्धे च त्रि॰।

७ विष्कम्भादिषु योगभेदे मेदि॰।

९ श्वेतैरण्डे राजनि॰

१० शुक्लपक्षे ज्यो॰ त॰।
“तत्र पक्षावुभौ मासे शुक्लकृष्णौक्रमेण हि। चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” षट्त्रिंशन्मतम्। शुक्लवर्णपदार्थास्तु कविकल्पलताथां कति-चित् उक्ता यथा
“सुधांशूच्चैःश्रवाः शम्भुः कीर्त्तिर्ज्यो-त्स्ना शरद्घनाः। प्रासादसौधतगरमन्दारद्रुहिभाद्रयः। सूर्येन्दुकान्तकर्पू करम्भा रजतं हली। निर्मोकभस्म-हिण्डीरचन्दनं करका हिमम्। हारोर्णनाभस्तन्त्वस्थिस्वर्गङ्गेभरदाभ्रकम्। शेषाहिः शर्करा दुग्धं दधि गङ्गासुधा जलम्। मृणालसिकताहंसवककैरवचामरम्। रम्भागर्भं पुण्डरीकं केतकीशङ्खनिर्झराः। लोध्रसिंहध्वजच्छत्रं चूर्णशुक्तिकपर्दका। मुक्ताकुसुमनक्षत्र-दन्तपुण्योशनोगुणाः। कैलासकासकार्पामहासवासव-[Page5127-a+ 38] कुञ्जराः। नारदः पारदः कुन्दखटिकास्फटिकादयः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल¦ mfn. (-क्लः-क्ला-क्लं) White, of a white colour. m. (-क्लः)
1. White, (the colour.)
2. The light-half of a lunar month: see शुक्लपक्ष।
3. One of the astronomical Yo4gas. n. (-क्लं)
1. Silver.
2. Fresh butter.
3. A disease of the cornea, opacity, albugo.
4. Sour gruel. f. (-क्ला)
1. A name of SARASWATI.
2. Clayed or candied sugar.
3. A woman with white complexion. E. शुच् to be pure, &c., Una4di aff. रन्, and र changed to ल |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल [śukla], a. [शुच्-लुक् कुत्वम्]

White, pure, bright; as in शुक्लापाङ्ग q. v.

Spotless, unsullied; ज्ञाननिष्ठास्त्रिशुक्लाशुक्लाश्च सर्व- भूतहिते रताः Mb.12.27.7.

Virtuous, moral (सात्त्विक); शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति Bhāg.11. 23.44.

Bringing success (यशस्कर); एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा Mb.5.23.17.

Light-giving, luminous; शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते Bg.8. 26.

क्लः A white colour.

The bright or light half of a lunar month; कचोर$भिरूपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्यये पौर्णि- मास्यामिवेन्दुः Mb.1.76.61; Bg.8.24.

N. of Śiva.

N. of Viṣṇu; रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः Bhāg.3.21.51.

N. of a Muni (कपिल); क्षेमाय नश्चे- दसि नोत शुक्लः Bhāg.5.1.16.

क्लम् Silver.

A disease of the white part of the eye.

Fresh butter.

Sour gruel.

Brightness, light.

White spot.-Comp. -अङ्गः, -अपाङ्गः a peacock (having white corners of the eye); शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः Me.22. -अम्लम् a kind of sorrel. -अर्मन् n. a kind of disease of the eyes. -उपला candied sugar. -कण्ठकः a kind of gallinule. -कर्मन् a. pure in conduct, virtuous. -कुष्ठम् white leprosy. -जीवः a kind of plant (वज्री); उद्भिज्जा जन्तवो यद्वच्छुक्लजीवा यथा यथा Mb.12.136.8. -देहa. pure in body or person; न ज्ञातिभ्यो दया यस्य शुक्लदेहो$वि- कल्मषः Mb.3.2.1 (com. शुक्लवृत्युपजीवी); cf. शुक्लवृत्तिः.-धातुः chalk. -पक्षः the bright half of a month.-मण्डलम् the corner of the eye. -वस्त्र a. dressed in white. -वायसः a crane. -वृत्तिः f.

a pure mode of life.

the maintenance derived by a Brāhmaṇa from other Brāhmaṇas.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल mf( आ)n. (later form of शुक्र, for which it is sometimes w.r. )bright , light (with पक्ष= शुक्ल-प्See. ) Ka1tyS3r. Mn. MBh. etc.

शुक्ल mf( आ)n. white , whitish AitBr. etc.

शुक्ल mf( आ)n. pure , spotless , unsullied MBh. Ka1v. etc.

शुक्ल m. the bright half of a lunar month or any day in it Gr2S3rS. Mn. MBh. etc.

शुक्ल m. the month वैशाखBhP. ( Sch. )

शुक्ल m. white (the colour) L.

शुक्ल m. mucus , saliva( शुक्लं-कृ, to spit at) AV.

शुक्ल m. ricinus or white -rricinus L.

शुक्ल m. Mimusops Hexandra L.

शुक्ल m. the 37th (or 3rd) year of Jupiter's cycle of 60 years VarBr2S.

शुक्ल m. the 24th of the astronomical Yogas. L.

शुक्ल m. N. of शिवMBh.

शुक्ल m. of विष्णुBhP.

शुक्ल m. of a son of हविर्-धान(See. शुक्र) Hariv.

शुक्ल m. of a मुनिCat.

शुक्ल m. of a king Buddh.

शुक्ल m. of a mountain BhP.

शुक्ल m. white or candied sugar L.

शुक्ल m. Euphorbia Antiquorum L.

शुक्ल m. = काकौलीand विदारीL.

शुक्ल m. N. of सरस्वतीL.

शुक्ल m. of a daughter of सिंह-हनुBuddh.

शुक्ल m. of a river BhP.

शुक्ल n. brightness , light MaitrUp.

शुक्ल n. a white spot , white substance , anything white AV. S3Br. ChUp.

शुक्ल n. the white of the eye S3Br. R. Sus3r.

शुक्ल n. a disease of the cornea or white part of the eye (opacity , albugo ; See. शुक्र) L.

शुक्ल n. silver L.

शुक्ल n. fresh butter L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Hari. भा. III. २१. ३५. [page३-443+ २८]
(II)--a son of हविर्धान. भा. IV. २४. 8; Br. II. ३७. २४.
(III)--a Mt. in क्रौञ्चद्वीप. भा. V. २०. २१.
(V)--one of the seven sons of वसिष्ठ. वा. २८. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUKLA : A warrior who fought on the side of the Pāṇḍavas. He was a native of Pāñcāla country. Mahābhārata, Karṇa Parva, Chapter 56, Verse 45, men- tions that he was slain by Karṇa during the Bhārata battle.


_______________________________
*13th word in right half of page 759 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukla. See Yajus.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ल न.
एड़ी का श्वेतभाग (पैर के काले भाग की तुलना में वेदि एड़ी के श्वेत भाग जितनी गहरी खोदी जाती है), आप.श्रौ.सू. 2.2.7; (बौधायन; पृथमात्रा = 13 अङ्गुल, रथवन्मात्री, सीतामात्री, प्रादेशमात्री।)।

"https://sa.wiktionary.org/w/index.php?title=शुक्ल&oldid=504968" इत्यस्माद् पुनः प्राप्तिः