सामग्री पर जाएँ

शुक्लः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुक्लः, पुं, (शुच + रन् । रस्य लः ।) वर्णविशेषः सादा इति भाषा । तत्पर्य्यायः । शुभ्रः २ शुचिः- ३ श्वेतः ४ विशदः ५ श्येतः ६ पाण्डरः ७ अव- दातः ८ सितः ९ गौरः १० वलक्षः ११ धवलः १२ अर्ज्जुनः १३ । इत्यमरः ॥ श्वेता १४ श्येता १५ श्येनी १६ विषदः १७ मिता १८ अवलक्षः १९ । इति तट्टीका ॥ शितिः २० पाण्डुः २१ । इति शब्दरत्नावली ॥ रामः २२ खरुः २३ । इति जटाधरः ॥ शक्रयोगः । इति मेदिनी ॥ श्वेतेरण्डः । इति राजनिर्घण्टः ॥ शुक्लपक्षः । यथा षट्त्रिंशन्मतम् । “तत्र पक्षावभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥” इति तिथ्यादितत्त्वम् ॥ शुक्लगुणयुक्ते, त्रि ॥ * ॥ शुक्लवस्तूनि यथा, -- “सुधांशूच्चैःश्रवाः शम्भुकीर्त्तिज्योत्स्नाशर- द्घनाः । प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥ सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हली । निर्मोकभस्महिण्डीरचन्दनं करका हिमम् ॥ हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम् ॥ मृणालसिकताहसवककैरवचामरम् । रम्भागर्भं पुण्डरीककेतकीशङ्खनिर्झराः ॥ लोध्रसिंहध्वजच्छत्रचूर्णशुक्तिकपर्द्दकाः । मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥ कैलासकाशकार्पासहासवासवकुञ्जराः । नारदः पारदः कुन्दखटिकास्फटिकादयः ॥” इति श्वेतानि ॥ * ॥ वपुर्महोदधिच्छायं बिभ्रत् सैन्धवकान्तिमान् । स्फाटिकी च लसल्लक्ष्मोः पट्टांशुककटिं वहन् ॥ धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः । अर्जुनद्युतिविद्योतीत्ये वमादि समुन्नयेत् ॥ *” ॥ रक्तश्वेतवाचकानि वस्तूनि यथा, -- “रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्य- कान्ताब्जाः । नवहसमहापद्मार्ककृशोदराः कमलकीलाले ॥” हरिश्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतशत्रं हंसपद्मयोः । सूर्य्यकान्तः स्फटिके सूर्य्यकान्ते च । अब्जः शङ्घाम्बुजयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महापद्मः श्वेतनागे पद्मे च । अर्कः स्फटिक- सूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभि ॥” भानोः परस्मात् सुहृद्रत्नादिभिः सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्रं सूर्य्यकान्तो रविपद्मरागौच । अग्निरत्नं सूर्य्य- कान्तो अग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च जलशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारिशोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमु- दारिशोभा कुमुदस्पर्द्धिशोभा । पक्षे कुमुदारि- रादित्यः ॥ * ॥ पीतश्वेतवाचकानि वस्तूनि यथा, -- “पीतश्वेतौ गौरद्विजराजकपर्द्दशम्भुहरि- तार्क्ष्याः । हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः ॥” गौरः श्वेतपीतयोः । द्विजराजो गुरुचन्द्रयोः । कपर्द्दः शम्भुजटाजूटवराटयोः । शम्भुर्ब्रह्म- त्रिलीचनयोः । हरिः पिङ्गलसिंहयोः । ताक्ष्र्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नोऽयं हैमः । पक्षे हिमस्यायम् । अष्टापदं सुवर्ण- सरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः । “सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः । दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥” तारुकूटो रूप्यसमूहः । पक्षे आरकूटो रीतिः । सुशोभनमर्णः कनकञ्च ॥ * ॥ अथ श्लोकोत्ती- र्णानि । गोपतितार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्यस्तुरङ्गः । वाम- देवगिरिर्मनोज्ञमेरुः कैलासश्च । इति कवि- कल्पलतायाम् २ श्लेषे उद्दिष्टवर्णनं १ कुसुमम् ॥

"https://sa.wiktionary.org/w/index.php?title=शुक्लः&oldid=171493" इत्यस्माद् प्रतिप्राप्तम्