सामग्री पर जाएँ

शुक्लम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुक्लम्, क्ली, (शुच शौचे + “ऋज्रेन्द्रेति ।” उणा० २ । २८ । इति रन् प्रत्ययेण माधु ।) रजतम् । इति मेदिना ॥ नवनातम् । इति चब्दचन्दिका । अक्षिरोगविशेषः । इति जटाधरः ॥ स तु चक्षुःशुक्लभागजरोगः । तद्विरणं यथा, -- “प्रस्तारिशुक्लक्षतजाधिमांस- साग्वर्म्मसंज्ञाः खलु पञ्च रोगाः ॥” तत्र शुक्लमाह । “सुश्वे तं मृदुशुक्लार्म्मं शुक्लं तद्वर्द्धते चिरात् ॥” अस्य चिकित्सा । “भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ स्नानं कृष्णतिलैर्व्वापि चक्षुष्यमनिलापहम् । आमलैः सततं स्नानं परदृष्टिबलापहम् ॥ शुण्ठीनिम्बदलैः पिण्डीसुखोष्णास्वल्पसैन्धवा । धार्य्या नेत्रेऽनिलश्ले ष्मशोथकण्डूव्यथाहरी । त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा ॥” अन्यदौषधं शुक्तिशुक्रशब्दयोर्द्रष्टव्यम् । काञ्जि- कादि । यथा, -- “कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्ज येत्कांस्यं कार्त्तिके शुक्लसन्धि- तम् ॥” इति श्रीगोपालभट्टविलिखिते भगवद्भक्ति- विलासे १६ विलामः ॥ शुक्लं काञ्जिकादि- पर्य्युषिताम्लद्रष्यं मन्धितञ्च वर्जयेत् । इति श्रीजीवगोस्वामिकृततट्टीका दिद्गर्शनी ॥

"https://sa.wiktionary.org/w/index.php?title=शुक्लम्&oldid=171492" इत्यस्माद् प्रतिप्राप्तम्