सामग्री पर जाएँ

शुङ्गाकर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुङ्गाकर्म्म, [न्] क्ली, पुंसवनसंस्कारविशेषः । यथा “अग्निस्तु मारुतो नाम गर्भाधाने विधीयते । पुंसवने चन्द्रनामा शुङ्गाकर्म्मणि शोभनः ॥” इति तिथ्यादितत्त्वम् ॥ तत्कर्म्मानुष्ठानं यथा । शोभननामानमग्निं संस्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्य वटवृक्षस्य पूर्व्वोत्तरशाखायां फलयुगलशालिनीं कृमिभिरनुपहतां वटशुङ्गा यवानां माषाणां वा त्रिभिस्त्रिभिर्गुडकैः सप्तवारान् सप्तभिर्मन्त्रैः क्रीणीयात् । सप्तानां मन्त्राणामृष्यादयः साधा- रणाः । प्रजापतिरृषिः सोमवरुणवसुरुद्रा- दित्यमरुद्विश्वेदेवादेवता न्यग्रोधशुङ्गापरिक्रयणे विनियोगः । ओ~ यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण एकं परिक्रयणम् ॥ यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण द्वितीयं परिक्रयणम् ॥ यद्यसि वसुभ्यो वसुभ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण तृतीयं परि- क्रयणम् ॥ यद्यसि रुद्रे भ्यो रुद्रेभ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण चतुर्थं परि- क्रयणम् ॥ यद्यसि आदित्येभ्यः आदित्येभ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण पञ्चमं परिक्रयणम् ॥ यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडकत्रयेण षष्ठं परि- क्रयणम् ॥ यद्यसि विश्वे भ्यो देवेभ्यो विश्वेभ्यो देवेभ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडक- त्रयेण सप्तमं परिक्रयणम् ॥ ततः क्रीतां वट- शुङ्गां अनेनं मन्त्रेण वृक्षादानयेत् । प्रजापति- ऋषिरोसध्यो देवतान्यग्रोधशुङ्गाच्छेदने विनि- योगः । ओषधयः सुमनसो भूत्वा अस्या वीर्य्य समाधत्त इयं कर्म्म करिष्यति । ततस्तां वट- शुङ्गां तृणेन वेष्टितामन्तरीक्षेणानीय अन्तरीक्षे स्थापयेत् । ततः कृतशोभननाम्रो अग्नेरुत्तरतः प्रक्षालितशिलायां ब्रह्मचारी कुमारी भगवती वा श्रुतस्वाध्यायशीलो वा ब्राह्मणः आचारतो नीहारजलेनानावृतलोष्ट्रे ण पुनः पुनः पेषयेत् । ततोऽग्नेः पश्चिमतः उत्तराग्रेषु कुशेषु पश्चि- माभिमुखीं बधूं पूर्व्वदिगानतमस्तकां कृत्वा पृष्ठदेशे स्थितः पतिर्दक्षिणपाणेरङ्गुष्ठानामि- काभ्यां वस्त्रबद्धां पेषितवटशुङ्गां गृहीत्वा गर्भ- वत्या दक्षिणनासाविवरे शुङ्गारसं निक्षिपति अनेन मन्त्रेण । प्रजापतिरृ षिरनुष्टुप्च्छन्दो- ऽग्नीन्द्रबृहस्पतयो देवता न्यग्रोधशुङ्गारसस्य दाने विनियोगः । पुमानग्निः पुमानिन्द्रः पुमान् देवो बृहस्पतिः । पुमांसं पुत्त्रं विन्दस्ब तं पुमाननुजायताम् ॥ ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूणीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्य उदीच्यं शाव्यायनहोमादिवामदेव्य- गानान्तं कर्म्म समाप्य कर्म्मकारयितृब्राह्मणाय दक्षिणां दद्यात् । इति भवदेवः ॥

"https://sa.wiktionary.org/w/index.php?title=शुङ्गाकर्म्म&oldid=171546" इत्यस्माद् प्रतिप्राप्तम्