सामग्री पर जाएँ

शुठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुठ, इ खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) खोटनमिह गत्याघातः । इ, शुण्ठ्यते । इति दुर्गादासः ॥

शुठ, इ कि शोषणे । इति कविकल्पद्रुमः । (चुरा० पक्षे भ्वा०-अक०-सेट् ।) इ, शुण्ठ्यते । कि, शुण्ठयति शुण्ठति पत्रमातपात् । रमा- नाथस्तु भ्वादिपक्षे शुष्कीभावे । चुरादिपक्षे शुष्कीकरणेऽयमिति मत्वा भ्वादौ शुण्ठति पत्रं चुरादौ शुण्ठयति काष्ठमातप इत्युदाहृतवान् । वस्तुतस्तु उभयत्र शुष्कीभावः अन्यथा भौवा- दिकस्यैव प्रेरणवाचित्वाच्चुरादिपाठोऽनर्थकः स्यात् । इति दुर्गादासः ॥

शुठ, क आलस्ये । इति कविकल्पद्रुमः ॥ चुरा- पर०-अक०-सेट् ।) क, शोठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुठ¦ गतिविघाते भ्वा॰ पर॰ सक॰ सेट्। शोठति अशोठीत्।

शुठ¦ आलस्ये चु॰ उभ॰ सक॰ सेट्। शोठयति ते अशूशुठत् त।

शुठ¦ शोधने बा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। शुण्ठयति ते शुण्टति अशुशुण्ठत् त अशुण्ठीत्।

"https://sa.wiktionary.org/w/index.php?title=शुठ&oldid=337880" इत्यस्माद् प्रतिप्राप्तम्