सामग्री पर जाएँ

शुद्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुद्धः, त्रि, (शुध + क्तः ।) केवलम् । (यथा, मनुः । ९ । २७९ । “तडागमेदकं हन्यादप्सु शुद्धवधेन वा । तद्वापि प्रतिसंकुर्य्यात् दाप्यस्तूत्तमसाहसम् ॥”) निर्द्दोषः । (यथा, बृहत्संहितायाम् । ४९ । ४ । “सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥”) पवित्रः । इति मेदिनी ॥ (उज्ज्वलः । यथा, रघुः । १ । ४६ । “काप्यभिख्या तयोरासीत् व्रजतोः शुद्ध- वेशयोः ॥”) शुक्लः । इति धरणिः ॥ रागान्तरामिश्रित- रागः । इति संगीतशास्त्रम् ॥ * ॥ शरीरा- शुद्धताकारणं यथा, -- नारद उवाच । “मानवानां द्विजादीनां शरीरस्यापवित्रता । भवेत् केन प्रकारेण कथ्यतां तत् सदाशिव ॥ सर्व्ववेदपुराणादिशास्त्रज्ञानां द्विजन्मनाम् । जितेन्द्रियस्मृतिविदां तनोः कथय पूतताम् ॥ सदाशिव उवाच । यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् । देवर्षे शृणु तत् सर्व्वं नराणामानुपूर्व्विकम् ॥ जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा । अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्म्मसु ॥ अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने नैव ब्रह्मयज्ञजपादिषु ॥ रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥ भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥ ज्वरादिभिश्चतुःषष्टिरोगैर्युक्तद्विजन्मनाम् । वपुरप्रयतं पूजादानहोमजपादिषु ॥ धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥ अपवित्रं द्बिजादीनां वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः ॥ अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि च । सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥” इति पाद्मे उत्तरखण्डे १९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शुद्धः&oldid=171594" इत्यस्माद् प्रतिप्राप्तम्