शुद्धान्तपालकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुद्धान्तपालकः, पुं, (शुद्धान्तं पालयतीति । पालि + ण्वुल् ।) अन्तःपुररक्षकः । तत्पर्य्यायः । गृहदौवारिकः २ कक्षारक्षकः ३ रात्रि- हिण्डकः ४ । इति शब्दमाला ॥ तस्य लक्षणं यथा, -- “वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः । राज्ञामन्तपुराध्यक्षो विनीतश्च तथेष्यते ॥” इति मात्स्ये १८९ अध्यायः ॥
