शुनःशेफ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुनःशेफः, पुं, मुनिविशेषः । स तु ऋचीकमुनि- पुत्त्रः । अम्बरीषेण यज्ञार्थं क्रीतः विश्वामित्रेण रक्षितश्च । इति रामायणे वाल्मीकीये बाल- काण्डे ६१ सर्गः ॥ (वरुणशापात् जलोदररोग- पीडितो हरिश्चन्द्रः अजीगर्त्तपुत्त्रं शुनःशेफं पशुं विधाय वरुणतुष्ट्यर्थं यज्ञमारब्धवान् । करुणा- र्द्रचित्तो शिश्वामित्रस्तु तमतीवव्याकुलमव- लोक्य मोचयामास । ततः प्रभृति शुनःशेफोऽयं विश्वामित्रस्य पुत्त्र इति प्रसिद्ध्वोऽभूत् । एतद्वृ- त्तान्तस्तु देवीभागवते ७ स्कन्धे १६ अध्याय- मारभ्य द्रष्टव्यः ॥ कुक्कु रशिश्ने, क्ली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुनःशेफ¦ पु॰ शुनैव शेफोऽस्य अलुक्समा॰। विश्वामित्र-शिष्ये मुनिभेदे।
