सामग्री पर जाएँ

शुनासीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुनासीरः, पुं, (शुनासीरौ वायुसूर्य्ये अस्य स्त इति । शुन । सीर + अर्शआद्यच् ।) इन्द्रः । यथा, -- “शुनाशीरो द्वितालव्यः शुनासीरो द्विदन्त्यकः तालव्यादिर्दन्त्थमध्यः शुनासीरश्च दृश्यते ॥” इत्यमरटीकायां भरतः ॥ (यथा, तैत्तिरीयसंहितायाम् । १ । ८ । ७ । १ । “इन्द्राय शुनासीराय पुरोडाशमिति ॥” * ॥ वायुसूर्य्यौ । इति निघण्टुः । ५ । ३ ॥ “शु-शब्दार्थ- विशिष्टात् शुन गतौ इत्यस्मात् इगुपधलक्षणः कः । क्षिप्रं गच्छत्यन्तरिक्षमिति शुनो वायुः यद्वा, शु-शब्दोपपदान्नयतेर्गतिकर्मणः अन्ये- ष्वपि दृश्यते इति डः । भाष्ये तु शु एतदर्थतो निर्वचनं प्रायेण । सर्त्तेः ‘डिण्डीरवानीरगभीर गम्भोर-कुम्भीर-शीरकाश्मीरजम्बीरकीरतीरा- दयः’ इति ईरन्-प्रत्ययष्टिलोपश्च निपात्यते । सदा सरणात् सीर आदित्यः । शुनञ्च सीरञ्च देवताद्वन्द्वे च इत्यङ् ।” इति तट्टीकायां देव- राजयज्वा ॥ * ॥ इन्द्रवायू । यथा, ऋग्वेदे । ४ । ५७ । ९ । “शुनासीरा शुनमस्मासु धत्तम् ॥”) “हे शुनासीरा इन्द्रवाय्वादित्यौ वा ।” इति । तद्भाष्ये सायणः )

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुनासीर¦ पु॰ सुष्ठुनासीरं यस्य पृषो॰।

१ इन्द्रे

२ पेचके चपृषो॰ तस्य रूपत्रयम् द्विरूपकोषे उक्तं यथा
“शुनाशोरो द्वितालव्यः सुनासीरो द्विदन्त्यकः। तालव्या-दिर्दन्त्यमध्यः शुनासीरश्च दृश्यते”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुनासीर/ शुना-सीर m. du. N. of two rural deities favourable to the growth of grain (prob. personifications of " share " and " plough " ; but identified by यास्कwith वायुand आदित्य, by others with इन्द्रand वायुor इन्द्रand सूर्य)

शुनासीर/ शुना-सीर m. sg. (also written सुन्)N. of इन्द्र(See. वसुंधरा-शुन्) TS. etc.

शुनासीर/ शुना-सीर m. ( pl. )a partic. class of gods (also written सुन्) BhP.

शुनासीर/ शुना-सीर n. or f( आ). N. of partic. oblations Br. S3rS.

"https://sa.wiktionary.org/w/index.php?title=शुनासीर&oldid=338914" इत्यस्माद् प्रतिप्राप्तम्