सामग्री पर जाएँ

शुभम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुभम्, क्ली, (शोभते इति । शुभ दीप्तौ + कः ।) मङ्गलम् । इत्यमरः ॥ (यथा, कथासरित्सागरे । १२४ । ११२ । “अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ॥” पद्मकाष्ठम् । इति राजनिर्घण्टः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ शुभपर्य्याये शुम- मित्यव्ययमप्यस्ति । इति काशिका । ५ । २ । १४० ॥) शुभः, पुं, (शोभते इति । शुभ + कः ।) विष्कु- म्भादिसप्तविंशतियोगान्तर्गतत्रयोविंशयोगः । तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “शुभप्रसूतः शुभकृन्नराणां शुभोदयेष्टो विदुषां समाजे । करोति नित्यं शुभकर्म्म धीमान् शोभाधिकः शोभनवेशधारी ॥”

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शुभम्¦ अव्य॰ शुभ--कसु। मङ्गले
“शुभंयुः”।

"https://sa.wiktionary.org/w/index.php?title=शुभम्&oldid=339379" इत्यस्माद् प्रतिप्राप्तम्