शुष्कपत्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुष्कपत्रम्, क्ली, (शुष्कं पत्रम् ।) स्नेहरहितदलम् । आतपादिशोषितपट्टशाकम् । नालिता इति शुक्ता इति च भाषा । तस्य गुणाः । “शुष्कपत्रं पयोमिश्रं पित्तश्ले श्मज्वरापहम् ॥) तत् शुष्कपत्रं जलदोषनाशनं विशेषतः पित्तकफज्वरापहम् । जलञ्च तस्यापि च पित्तहारकं सुरोचनं व्यञ्जनयोगकारकम् ॥” इति राजवल्लभः ॥
