शुष्कमांसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शुष्कमांसम्, क्ली, (शुष्कं मांसम् ।) आतपादिना निस्नेहीकृतमांसम् । तत्पर्य्यायः । उत्तप्तम् २ वल्लरम् ३ । इत्यमरः ॥ वल्लूरा ४ शुष्कनी ५ । इति तट्टीका ॥ अस्य गुणाः । “वृद्धानां दोषलं मांसं बालानां बलदं लघु । त्रिदोषकृद्व्यालजुष्टं शुष्कं शूलकरं गुरु ॥” इति भावप्रकाशः ॥
