शूकधान्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शूकधान्यम्, क्ली, (शूकविशिष्टं धान्यम् ।) शुङ्गा- युक्तशस्यमात्रम् । स तु धान्ययवादिः । यथा, -- “व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत् शूकधान्यमथ मुद्गमकुष्ठकादि । शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बी- धान्यं तृणोद्भवमथो तृणधान्यमन्यत् ॥” अस्य गुणाः । “तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तैर्दैवतेर्व्वा ॥” इति राजनिर्घण्टः ॥ अपि च । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु ॥” इति राजवल्लभः ॥ अन्यच्च । “यवस्तुसितशूकः स्यात् निःशूकोऽतियवः स्मृतः तोक्मस्तद्वत् स हरितस्ततः स्वल्पश्च कीर्त्तितः ॥ यवः कषायो मधुरः शीतलो लेखनो मृदुः । व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्द्धनः ॥ कटुपाकोऽनभिष्यन्दी सर्य्यो बलहरो गुरुः । बहुवातमलो वर्णस्थैर्य्यकारी च पिच्छिलः । कण्ठत्वगामयश्ले ष्मपित्तमेदप्रणाशनः ॥ पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् । अस्मादतियवो न्यू नस्तोक्मो न्यूनतरस्ततः ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शूकधान्य नपुं।
यवादिशूकधान्यम्
समानार्थक:शूकधान्य
2।9।24।1।2
माषादयः शमीधान्ये शूकधान्ये यवादयः। शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी॥
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शूकधान्य¦ न॰ शूकयुक्तं धान्यम् शाक॰। यवादौ धान्येअमरः।
“व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत्शूकधान्यमथ मुद्गमकुष्ठकादि। शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवमथो तृणधान्यमन्यत्। तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि। देशे देशे शूकधान्येषु संख्या ज्ञातुंशक्या नो नरैर्दैवतैर्वा” राजनि॰।
“शूकधान्यं शमीधान्यंसमातीतं प्रशस्यते। परतो वातकृद्रूक्षं प्रायेणाभिनवंगुरु” राजवल्लभः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शूकधान्य¦ n. (-न्यं) Awned or bearded grain, as barley, &c. E. शूक an awn, धान्य grain.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शूकधान्य/ शूक--धान्य n. any awned or bearded grain (one of the 5 kinds of grain , the others being शालि-, व्रीहि-, शमी-, and क्षुद्र-ध्) Car. Bhpr.