सामग्री पर जाएँ

शूकधान्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूकधान्यम्, क्ली, (शूकविशिष्टं धान्यम् ।) शुङ्गा- युक्तशस्यमात्रम् । स तु धान्ययवादिः । यथा, -- “व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत् शूकधान्यमथ मुद्गमकुष्ठकादि । शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बी- धान्यं तृणोद्भवमथो तृणधान्यमन्यत् ॥” अस्य गुणाः । “तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तैर्दैवतेर्व्वा ॥” इति राजनिर्घण्टः ॥ अपि च । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु ॥” इति राजवल्लभः ॥ अन्यच्च । “यवस्तुसितशूकः स्यात् निःशूकोऽतियवः स्मृतः तोक्मस्तद्वत् स हरितस्ततः स्वल्पश्च कीर्त्तितः ॥ यवः कषायो मधुरः शीतलो लेखनो मृदुः । व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्द्धनः ॥ कटुपाकोऽनभिष्यन्दी सर्य्यो बलहरो गुरुः । बहुवातमलो वर्णस्थैर्य्यकारी च पिच्छिलः । कण्ठत्वगामयश्ले ष्मपित्तमेदप्रणाशनः ॥ पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् । अस्मादतियवो न्यू नस्तोक्मो न्यूनतरस्ततः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=शूकधान्यम्&oldid=171746" इत्यस्माद् प्रतिप्राप्तम्