सामग्री पर जाएँ

शूकरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूकरः, पुं, (शूकं तद्वल्लोम रातीति । रा + कः ।) पशुविशेषः । शुओर इति भाषा । तत्पर्य्यायः । वराहः २ स्तब्धरोमा ३ रोमशः ४ किरिः ५ चक्रदंष्ट्रः ६ किटिः ७ दंष्ट्री ८ क्रोडः ९ दन्ता- युधः १० बली ११ पृथुस्कन्धः १२ पोत्री १३ घोणी १४ भेदनः १५ कोलः १६ पोत्रायुधः १७ शूरः १८ बह्वपत्यः १९ रदायुधः २० । वन्यस्य तस्य मांसगुणाः । गुरुत्वम् । वातहारित्वम् । वृष्यत्वम् । बलस्वेदकरत्वञ्च ॥ ग्राम्यस्य तस्य मांसगुणाः । वन्यवराहमांसादगुरुत्वम् । मेदो- बलवीर्य्यवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “लुलापगण्डवाराहचमरीवारणादयः । एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥ कूलेचरा मरुत्पित्तहरा वृष्यबलापहाः । मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्म- वर्द्धनाः ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूकरः [śūkarḥ], A hog; गच्छ शूकर भद्रं ते वद सिंहो मया हतः । पण्डिता एव जानन्ति सिंहशूकरयोर्बलम् ॥ Subhāṣ. -Comp. -इष्टः a kind of grass (मुस्ता).

"https://sa.wiktionary.org/w/index.php?title=शूकरः&oldid=340803" इत्यस्माद् प्रतिप्राप्तम्