सामग्री पर जाएँ

शूद्रकृत्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूद्रकृत्यम्, क्ली, (शूद्रस्य कृत्यम् ।) शूद्रकर्त्तव्य- कर्म्म यथा, -- “प्रणम्य सच्चिदासन्दं शूद्राणां न्यायवर्त्तिनाम् । श्राद्धाहःकृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥” तच्च मत्स्यपुराणम् । “एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा । नमस्कारेण मन्त्रेण कुर्य्यादामान्नवद्बृधः ॥ दानः प्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्व्व कामाप्तिरस्य संजायते यतः ॥” ततो दानमेवापेक्षितंन तु भोजनमपि । सामान्यं सर्व्वजनकर्त्तव्यत्वेनप्रतिमासकृष्णपक्षादिविहित श्राद्धं आभ्यु दयिकश्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेण नतुस्वयं पठितमन्त्रेण आमान्नवदित्यनेनजलसेक सिद्धान्नव्यावृत्तिः । स्विन्नमन्नमुदाहृतम् । इति वशिष्ठे न स्विन्नस्यैवान्नत्वाभिधानात् । कन्दुपक्वस्ये भृष्टत्वं नतु सिन्नत्वम् । हारीतेन स्वेदनभर्ज्ज- नयोः पृथक्त्वमुक्तम् । यथा । आदीपनतापन- स्वेदनभर्ज्जनपचनादिभिः प्रञ्चमीति अस्यार्थः । आदीपनं काष्ठानाम् तापनं तोयादेः । स्वेदनं धान्यादेः । भर्ज्जनं यवादेः । पचनं तण्डुलादेः । इति पञ्चमी । सूना इति कल्पतरुः । अतएव स्विन्नधान्येन व्यवह्रियते । “कन्दुपक्वानि तैलेन पायसं दधि शक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥” इति कुर्म्मपुराणवचनेन शूद्रकर्त्तृककन्दुपक्वादे र्ब्राह्मणस्य भक्ष्यत्वेन श्राद्धे देयत्वं युक्तम् । कन्दु पक्वं जलोपसेकं विना केवलपात्रेण यद्वह्णिना पक्वम् । पायसं पाकेन काठिन्यविकारापन्नं दुग्धम् । परमान्नपरत्वे पुंलिङ्गनिर्द्देशापत्तेः ॥ तथा चामरः । परमान्नस्तु पायस इति । “दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्द्विजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्ज्जितः ॥” इति श्राद्धचिन्तामणिधृतवराहपुराणवचनमपि कन्दुपक्वपरम् । एवन्तु एतद्वचनं सच्छू द्रपरं मैथिलोक्तं हेयम् । एवं आममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयम् । तत्र द्रव्य- देवताप्रकाशार्थं ब्राह्मणेन मन्त्राः । पाठ्याः । मपकर्षात् । अतएव स्पृष्टाभिरित्युक्तं न तु भक्षिताभिरिति । “स्त्री शूद्रः शुध्यते नित्यं क्षालनाच्च करोष्ठयोः ॥” इति ब्रह्मपुराणवचनञ्च । याज्ञवल्क्यः । “प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुप- स्पृशेत् ।” अत्र द्विजस्यैव आचमने ब्राह्म्यतीर्थोपादानात् स्त्रीशूद्रयोर्ण तेनाचमनम् । एवमेव मिता- क्षरायां व्यक्तमुक्तं मरीचिना । “स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्विरेतयोरेव चोभयोः ॥” इति । एतदनन्तरं इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव । प्रमाणान्तरन्तु वाजसनेयिसामगश्राद्धाह्निक- तत्त्वयोरनुसन्धेयम् । इति वन्द्यघटीयश्रीहरिहर भट्टाचार्य्यात्मज-श्रीरघुनन्दनभदृआचार्य्यविरचितं शूद्राह्निकाचारतत्त्वं समाप्तम् ॥

"https://sa.wiktionary.org/w/index.php?title=शूद्रकृत्यम्&oldid=171780" इत्यस्माद् प्रतिप्राप्तम्