सामग्री पर जाएँ

शूना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूना, स्त्री, (श्वयन्ति मृत्युं गच्छन्ति कीटादयो यत्र । श्वि + क्तः । टाप् ।) प्राणिवधस्थानम् । इति हलायुधः ॥ पञ्चविधा शूना यथा, -- “पञ्च शूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च वध्यते याश्च वाहयन् ॥” पञ्चशूनापापनाशो यथा, मनुः । “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवी वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते ॥” इति प्रायश्चित्ततत्त्वम् ॥ अधोजिह्विका । इति हारावली ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूना¦ स्त्री श्वि--अधिकरणे--क्त सम्प्र॰ दीर्घः।

१ प्राणिबधस्थाने हला॰
“पञ्च शूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनीचोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः। तद्दोषनिवृत्तयेकार्का मनुना पञ्च यज्ञा विहिता यथा
“अध्यापनं ब्रह्म-यज्ञः पितृयज्ञस्तु तर्पणम्। हौमो दैवौ वलिर्भोतीनृयज्ञाऽतिथिपूजनम्। पञ्चैतान् यो महायज्ञान् नहापयति शक्तितः। स गृहेऽपि वसन्नित्यं शूनादोषैर्नलिप्यते”। (आलजिभ)

२ अधोजिह्वायां हारा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूना [śūnā], [श्वि-अधिकरणे -क्त संप्र˚ दीर्घ Tv.]

The soft palate, uvula.

A slaughter house in general.

Anything (such as a piece of household furniture), whereby life is likely to be destroyed; (these are five: a fireplace, a grind-stone, a broom, a mortar, and a waterpot; पञ्च शूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च वध्यते यास्तु वाहयन् Ms.3.68.). See सूना.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूना See. सूना.

"https://sa.wiktionary.org/w/index.php?title=शूना&oldid=341383" इत्यस्माद् प्रतिप्राप्तम्