सामग्री पर जाएँ

शून्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शून्यः, त्रि, अतिशयेन ऊनः । अभावविशिष्टः । असम्पूर्णः । खालि इति पारस्यभाषा । तत्- पर्य्यायः । वशिकः २ तुच्छः ३ रिक्तकः ४ । इत्यमरः ॥ शुन्यम् ५ । इति तट्टीकायां भरतः ॥ “अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा । पुत्त्रहीनं गृहं शून्यं सर्व्वशून्या दरिद्रता ॥” इति चाणक्यम् ॥ (शून्यायै प्राणिहिंसायै हितः रहस्यस्थानत्वात् शूना + यत् । यद्वा, शूने हितम् । श्वन् + “शुनः । सम्प्रसारणं वा च दीर्घत्वम् । ५ । १ । २ । इत्यस्य वार्त्तिकोक्त्या यत् सम्प्रसारणं दीर्घत्वञ्च ।) निर्ज्जनः । इति मेदिनी ॥ (यथा, भट्टिः । १८ । २९ “केन संविद्रते नान्यस्त्वतो वान्धववत्सलः । विरौमि शून्यं प्रोर्णौमि कथं मन्युसमुद्भवम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=शून्यः&oldid=171805" इत्यस्माद् प्रतिप्राप्तम्