सामग्री पर जाएँ

शून्यालयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शून्यालयः, पुं, (शून्य आलयः ।) निर्ज्जनगृहम् । अत्र शयननिषेधो यथा । “मार्कण्डेयः । ‘शून्यालये श्मशाने च एकवृक्षे चतुष्पथे । महादेवगृहे चापि शर्करालोष्टपांशुषु ॥ धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥ नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः । नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥’ न स्वपेदित्यर्थः ।” इत्याह्निकतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=शून्यालयः&oldid=171812" इत्यस्माद् प्रतिप्राप्तम्