सामग्री पर जाएँ

शूरणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूरणः, पुं, (शूर्य्यते इति । शूर हिंसे + ल्युः ।) मूलविशेषः । ओल इति भाषा । तत्पर्य्यायः । अर्शोघ्नः २ कन्दः ३ । इत्यमरः ॥ सूरणः ४ । इति तट्टीका ॥ ओलः ५ । इति जटाधरः ॥ ओल्लः ६ । इति मेदिनी ॥ कण्डूलः ७ कन्दी ८ सुकन्दी ९ स्थूलकन्दकः १० द्गर्नामारिः ११ सुवृत्तः १२ वातारिः १३ कन्दशूरणः १४ तीव्रकण्ठः १५ कन्दार्ह्यः १६ कन्दवर्द्धनः १७ बहुकन्दः १८ रुच्यकन्दः १९ शूरणकन्दः २० । अस्य गुणाः । कटुत्वम् । रुच्यत्वम् । दीपनत्वम् । पाचनत्वम् । कृमिकफानिलश्वासकासवमनार्शः शूलगुल्मनाशित्वम् । अस्रदोषकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः विष्टम्भी विषदो रुच्यः कफार्शः कृन्तनो लघुः ॥ विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः । सर्व्वेषां कन्दशाखानां शूरणः श्रेष्ठः उच्यते ॥ दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः । सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः ॥” इति भावप्रकाशः ॥ अन्यच्च । “शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः । विशेषादर्शसां पथ्यो ग्राम्यकन्दस्तु दोषलः ॥” इति राजवल्लभः ॥ श्योनाकवृक्षः । इति शब्दमाला ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूरणः [śūraṇḥ], [शूर्-ल्यु] A kind of esculent root (Mar. सुरण).

"https://sa.wiktionary.org/w/index.php?title=शूरणः&oldid=341671" इत्यस्माद् प्रतिप्राप्तम्