सामग्री पर जाएँ

शूलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूलः, पुं, क्ली, (शूलति लोकानिति । शूल रोगे + अच् ।) रोगविशेषः । अस्त्रविशेषः । वर्शा इति भाला इति च भाषा । इत्यमरः ॥ मृत्युः । केतनः । विष्कम्भादिसप्तविंशतियोगान्तर्गत- नवमयोगः । इति मेदिनी ॥ तद्योगजात- फलम् । यथा, -- “भीतो दरिद्रो दहिताप्रियश्च शूलोद्भवः शूल इव स्वबन्धोः । विद्यामयाभ्यां रहितोऽथ शूली करोति लोके न हितं कदाचित् ॥” इति कोष्ठीप्रदीपः ॥ सुतीक्ष्णः । अयःकीलः । इति धरणिः ॥ (यथा, महाभारते । १ । १०७ । १२ । “ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥”) व्यथा । इति केचित् ॥ विक्रे तव्यम् । यथा, -- “अट्टशूला जनपदाः शिवशूलाश्चतुष्यथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥” इति महाभारते आदिपर्व्व ॥ * ॥ अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं निदानमाह । “दोषैः पृथक् समस्तामद्वन्द्वैःशूलोऽष्टधा भवेत् सर्व्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥” प्रभुः कर्त्ता ॥ * ॥ वातिकस्य विप्रकृष्टनिदान- संप्राप्तिलक्षणमाह । “व्यायामपानादतिमैथूनाच्च प्रजागराच्छीतजलादिपानात् । इति शूलामपरिणामशूलान्नद्रवजरत्पित्ताधि- कारः । इति भावप्रकाशः ॥ * ॥ अपि च । “अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः । निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥ * ॥ साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने । घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥” साञ्जनञ्च इत्यत्र ताम्बूलञ्च इति वा पाठः ॥ “चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥” इति गारुडे १८३ । १९५ । १९४ अध्यायाः ॥ किञ्च । “सामद्रं सैन्धवं क्षारो राजिका लवण विडम् । कटु लोहरजः किट्टं त्रिवृत् शूरणकं समम् ॥ दधिगोमूत्रपयसा मन्दपावकपाचितम् । एतच्चाग्निबलं चर्णं पिबेदुष्णेन वारिणा ॥ जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम् । नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ॥ सर्वं शूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥” इति गारुडे १९९ अध्यायः ॥ तस्य उपपापजत्वं यथा, -- “जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिर्भ्रममोहगलग्रहाः । रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥” इति शातातपीयकर्म्मविपाकः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शूलः [śūlḥ] लम् [lam], लम् [शूल्-क]

A sharp or pointed weapon, pike, dart, spear, lance.

The trident of Śiva.

An iron-spit (for roasting meat upon); शूले संस्कृतं शूल्यम् cf. अयःशूल.

A stake for impaling criminals; (बिभ्रत्) स्कन्धेन शूलं हृदयेन शोकम् Mk.1.21; Ku.5.73.

Any acute or sharp pain.

Colic.

Gout, rheumatism.

Death.

A banner, an ensign.

Selling; selling or salable object; 'अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते' इति कोशः; अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ Mb.3.188.42; अट्टशूलाः कतिपये पट्टने$स्मिन् प्रतिष्ठिताः Viś. Guṇa.438. (शूलाकृ 'to roast on an iron-spit'.) -Comp. -अग्रम् the point of a pike. -अङ्कः an epithet of Śiva; ये समाराध्य शूलाङ्कम् भवसायुज्यमागताः Mb.1.7.46. -अवतंसित a. impaled on a Śūla; पश्यतु पिमद्यैव शूलावतंसितम् Dk.2.1. -आरोपः, -आरोपणम् impalement. -गवः an ox fit for a spit (an offering to Rudra). -ग्रन्थिः f. a kind of Dūrvā grass. -घातनम् iron-filings. -घ्न a. a sedative, anodyne. -द्विष m. asa foetida. -धन्वन्, -धर, -धारिन्, -ध्रुक्, -पाणि, भृत् m. epithets of Śiva; अधिगतधवलिम्नः शूलपाणेरभिख्याम् Śi.4.65; R.2.38. -नाशनम् white sochal salt. -पालः the keeper of a brothel. -योगः a particular grouping of stars.-शत्रुः the castor-oil plant. -रथ a. impaled. -हन्त्री a kind of barley. -हस्तः a lancer. -हृत् m. asa foetida.

"https://sa.wiktionary.org/w/index.php?title=शूलः&oldid=342061" इत्यस्माद् प्रतिप्राप्तम्