सामग्री पर जाएँ

शृगालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृगालः, पुं, (सृजति मायामिति । सृज + कालन् पृषोदरादित्वात् साधुः ।) पशुविशेषः । शेयाल् इति भाषा । तत्पर्य्यायः । शिवा २ भूरिमायः ३ गोमायुः ४ मृगधूर्त्तकः ५ वञ्चकः ६ क्रोष्टुः ७ फेरुः ८ फेरवः ९ जम्बुकः १० । इत्यमरः ॥ सृगालः ११ जम्बूकः १२ मूत्रमत्तः १३ कुरवः १४ घोरबासनः १५ वनश्वा १६ फेरः १७ श्वधूर्त्तः १८ । इति शब्दरत्नावली ॥ शालावृकः १९ गोमी २० कटस्वादकः २१ । इति जटाधरः ॥ शिवालुः २२ फेरण्डः २३ व्याघ्रनायकः २४ । इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी ॥ वासुदेवः । निष्ठुरः । खलः । इति सारस्वता- भिधानम् ॥ भीरुः । इत्यनेकार्थकोषः ॥ * ॥ शृगालशब्दादीनां शुभाशुभसूचकत्वं यथा, -- “अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृष्टमात्रः । शस्ता हि वामा गतिरस्य शस्तो वामो निनादो निशि यो बहूनाम् ॥ हुवा हुवेति प्रथमं ततस्तु टटेति दीघः सुतरां रवो यः । स्याज्जम्बुकानां स नतः प्रशस्त- स्तदन्यरूपः कथितः प्रदीप्तः ॥ शृगालशब्दो भवने निशाया- मुच्चाटनार्थं दिशि पश्चिमायाम् । प्राच्यां भयायोत्तरतः शिवाय भवत्यवाच्यां भयनाशनाय ॥” इति वसन्तराजशाकुनम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृगालः [śṛgālḥ], [असृजं लाति ला-क पृषो˚]

A jackal.

A cheat, rogue, swindler.

A coward.

An ill-natured man, one using harsh words.

N. of Kṛiṣṇa. -Comp. -केलिः a kind of jujube. -जम्बुः, -म्बू f. kind of cucumber. -योनिः birth in a future life as a jackal.-रूपः an epithet of Śiva.

"https://sa.wiktionary.org/w/index.php?title=शृगालः&oldid=342519" इत्यस्माद् प्रतिप्राप्तम्