सामग्री पर जाएँ

शृङ्गबेरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृङ्गबेरम्, क्ली, (शृङ्गस्येव बेरं शरीरं यस्य ।) आर्द्रकम् । इत्यमरः ॥ शुण्ठी । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते । १ । ३८ । “पिप्पलीमरीचशृङ्गबेराणि त्रिकटुकम् ॥”) गुहचण्डालपुरम् । यथा, -- “मारुते गच्छ शीघ्रं त्वमयोध्यां भरतं प्रति । जानीहि कुशली कश्चित् जनो नृपतिमन्दिरे ॥ शृङ्गबेरपुरं गत्वा ब्रूहि मित्रं गुहं मम । जानकीलक्ष्मणोपेतमागतं मां निवेदय ॥” इत्यध्यात्मरामायणे लङ्काकाण्डे १४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शृङ्गबेरम्&oldid=171924" इत्यस्माद् प्रतिप्राप्तम्