शृङ्गम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्गम्, क्ली, (शॄहिंसे + “शृणातेर्ह्रस्वश्च ।” उणा० १ । १२५ । इति गन् । धातोर्ह्रस्वत्व~ कित्त्वं नुट् च प्रत्ययस्य ।) पर्व्वतोपरिभागः । तत्प- र्य्यायः । कूटम् २ कूटः ३ शिखरम् ४ । इत्य- मरः ॥ दन्तः ५ प्राग्भारः ६ । इति जटाधरः ॥ शैलाग्रम् ७ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । १३ । २६ । एतद्गिरेर्माल्यवतः पुरस्ता- दाविर्भवत्यम्बरलेखि शृङ्गम् ॥”) सानुः । इति नानार्थे अमरः ॥ प्रभुत्वम् । चिह्नम् । क्रीडाजलयन्त्रम् । (यथा रघुः १६ । ७० । “वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् ॥”) विषाणम् । (यथा, रघुः । १६ । १२ । “वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”) उत्कर्षः । इति मेदिनी ॥ (यथा, रघुः । ९ । ६२ । “शृङ्गं स दृप्तविनयाधिकृतः परेषा मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥” ऊर्द्ध्वम् । (यथा, कुमारे । ७ । ४० । “विमानशृङ्गाण्यवगाहमानः शशंस देवावसरं सुरेभ्यः ॥”) तीक्ष्णम् । पङ्कजम् । इति शब्दरत्नावली ॥ (कोटिः । यथा, कुमारे । २ । ६४ । “अथ सललितयोषिद् भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ॥” स्तनम् । यथा, भागवते । ५ । २ । ११ । “किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कृशो वहसि तत्र दृशिः श्रिता मे ॥” “स्तनावालक्ष्याह । शृङ्गयोः स्तनयोः किं सम्भृतं किं पूर्णमस्ति मनोहरं किञ्चिदस्ति इत्ये तावत् जानामि ।” इति तट्टीकायां स्वामी ॥ * ॥) महिषादिशृङ्गनिर्म्मितवाद्यविशेषः । शिङ्ग इति भाषा । यथा, -- “क्वचिद्वनाशाय मनो दधद्व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् शृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥” इति श्रीभागवते १० स्कन्धे १२ अध्यायः ॥ कामोद्रेकः । यथा, साहित्यदर्पणे । ३ । २१० । “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥” * ॥ गोशृङ्गभङ्गप्रायश्चित्तं यथा । भवदेवभट्टधृतं यमवचनम् । “अस्थिभङ्गं गवां कृत्वा लाङ्गुलच्छेदनं तथा । पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥” अङ्गिराः । “शृङ्गभङ्गेऽस्थिभङ्गे च चर्म्मनिर्म्मोचनेऽपि वा । दशरात्रं चरेद्वज्रं सुस्था सा यदि गौर्भवेत् ॥” भवदेवभट्टहरिनाथोपाध्यायधृतं संवर्त्तवचनम् । “शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥” अत्र षण्मासोत्तरमरणे तद्दोषशमनाय प्राय- श्चित्तं नास्ति तदभ्यन्तरमरणे वधप्रायश्चित्तं भवति । एवञ्च शृङ्गभङ्गादिनिमित्तकपापे पृथक् प्रायश्चित्तं न कर्त्तव्यम् । वधप्रायश्चित्तेनैव गुरुणा प्रसङ्गात्तदपगमसिद्धेः । षण्मासोत्तरन्तु शृङ्गभङ्गादिनिमित्तकपूर्व्वोक्तमासार्द्धयावकपानं प्राजापत्यं वा कर्त्तव्यम् । इति प्रायश्चित्ततत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्गम् [śṛṅgam], [शॄ-गन् पृषो˚ मुम् ह्रस्वश्च Uṇ.1.123]
A horn; वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् R.16.13; गाहन्तां महिषां निपानसलिलं शृङ्गैर्मुहुस्ताडितम् Ś.2.6.
The top or summit of a mountain; अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः Me.14,54.; Ki.5.42; R.13.26.
The top of a building, turret.
Elevation, height; रक्षो- लोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति Rām.3.31.43.
Lordship, sovereignty, supremacy, eminence; शृङ्गं स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्धमायुः R.9.62 (where the word means a 'horn' also).
A cusp or horn of the moon.
Any peak, point or projection in general.
A horn (of a buffalo &c.) used for blowing.
A syringe; वर्णोदकैः काञ्चनशृङ्गमुक्तैः R.16.7.
Excess of love, rising of desire.
A mark, sign.
A lotus.
A fountain of water.
Pride, selfrespect; अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत Mb.3.3.1 (com. शृङ्गं प्रभुत्वाभिमानः).
The stick (काण्ड) of an arrow with a horn-like knob; शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते Mb.8.34.18.
A particular military array; Mb.6.
The female breast. -Comp. -अन्तरम् space or interval between the horns (of a cow &c.). -उच्चयः a lofty summit. -कन्दः, -कन्दकः Trapa Bispinosa (Mar. शिंगाडा).
ग्राहिका direct manner.
(in logic) taking singly. -जः an arrow. (-जम्) aloe-wood.-प्रहारिन् a. butting. -प्रियः an epithet of Śiva. -मोहिन्m. the Champaka tree.
वेरम् N. of a town on the Ganges near the modern Mirzāpura; आससाद महाबाहुः शृङ्गवेरपुरं प्रति Rām.2.5.26; U.1.21 (v. l.)
ginger. -वेरकम् ginger.
