सामग्री पर जाएँ

शृङ्गवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृङ्गवान्, [त्] पुं, (शृङ्गाणि सन्ति अस्येति । शृङ्ग + मतुप् । मस्य वः ।) कुरुवर्षीयसीमा- पर्व्वतः । स तु दीर्घे ८०००० अशीतिसहस्र- योजनानि । प्रस्थे २००० द्विसहस्रयोजनानि । विस्तारे तयैव । यथा, -- “हिमवद्धेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ॥ लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥” इति विष्णुपुराणे २ अंशे २ अध्यायः ॥ लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध- नीलौ । यद्यपि जम्बु द्वीपमण्डलाकारस्य लक्ष- योजनप्रमाणत्वान्मध्यरेखायामेव मुख्यं लक्ष- प्रमाणत्वम् । निषधनीलौ तु तन्मध्यरेखातो दक्षिणतश्चोत्तरतश्च सप्तदशयोजनसहस्रान्तरि- तत्वादीषन्न्यूनौ । तथापि स्थूलदृष्ट्या लक्ष- प्रमाणावित्युक्तम् । अपरे तु हेमकूटादयो दश- हीनादशदशन्यूनाः हेमकूटश्वेतौ नवतियोजन सहस्रप्रमाणौ हिमवच्छृङ्गिणावशीतियोजन- प्रमाणौ । तदुक्तं वाराहे । “द्वीपस्य मण्डलीभावात् ह्रासवृद्धी प्रकीर्त्तिते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ भागवतमते दैर्घ्ये १०००० दशमहस्रयोजनानि प्रस्थे २००० द्विसहस्रयोजनानि । यथा । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा- गिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्व- स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम- कूटो हिमालय इति प्रागायता यथा नीला- दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष- भारतानां यथासंख्यम् ॥ इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृङ्गवत्¦ पु॰ शृङ्गं प्राशस्त्येनास्त्यस्य मतुप् मस्य वः।

१ सी-मापर्वतभेदे तन्मानादिभाग॰

१५ ।

१६ अ॰ उक्तं यथा
“उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो-रम्यकहिरण्मयकुरूणां वर्षाणां मार्य्यादागिरयः प्राना-यता उभयतः क्षारोदावधयः द्विसहस्वयोजनपृथव एकै-कशः पूर्वस्मात् पूर्बस्यादुत्तरोत्तरं दशांशाधिकांशेना दैर्घ्येएव ह्रस्वन्ति”।

२ शृङ्गयुते त्रि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृङ्गवत् [śṛṅgavat], a. Peaked. -m. A mountain.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृङ्गवत्/ शृङ्ग--वत् mfn. horned MBh.

शृङ्गवत्/ शृङ्ग--वत् mfn. having (many) peaks , peaked (as a mountain) R.

शृङ्गवत्/ शृङ्ग--वत् m. N. of a mythical mountain forming one of the boundaries of the earth MBh. Pur.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I) (च्)--a kingdom north of श्वेतम्, of Kuru. Br. II. १४. ५१; १५. ३४; वा. ३३. ४४.
(II)--a Mt. in जम्बूद्वीप, noted for gold and gems, abode of पितृस्, north of the श्वेत. Br. II. १५. २२, २८, ६९-70; १७. ३६. २१. १३८-41; M. ११३. २३; वा. ३४. २०, २५; ४५. 2; ११४. ८४.
(III)--a वर्ष, next to हिरण्मय. वा. ३४. ३०.
"https://sa.wiktionary.org/w/index.php?title=शृङ्गवत्&oldid=438939" इत्यस्माद् प्रतिप्राप्तम्