शृङ्गवान्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्गवान्, [त्] पुं, (शृङ्गाणि सन्ति अस्येति । शृङ्ग + मतुप् । मस्य वः ।) कुरुवर्षीयसीमा- पर्व्वतः । स तु दीर्घे ८०००० अशीतिसहस्र- योजनानि । प्रस्थे २००० द्विसहस्रयोजनानि । विस्तारे तयैव । यथा, -- “हिमवद्धेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ॥ लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥” इति विष्णुपुराणे २ अंशे २ अध्यायः ॥ लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध- नीलौ । यद्यपि जम्बु द्वीपमण्डलाकारस्य लक्ष- योजनप्रमाणत्वान्मध्यरेखायामेव मुख्यं लक्ष- प्रमाणत्वम् । निषधनीलौ तु तन्मध्यरेखातो दक्षिणतश्चोत्तरतश्च सप्तदशयोजनसहस्रान्तरि- तत्वादीषन्न्यूनौ । तथापि स्थूलदृष्ट्या लक्ष- प्रमाणावित्युक्तम् । अपरे तु हेमकूटादयो दश- हीनादशदशन्यूनाः हेमकूटश्वेतौ नवतियोजन सहस्रप्रमाणौ हिमवच्छृङ्गिणावशीतियोजन- प्रमाणौ । तदुक्तं वाराहे । “द्वीपस्य मण्डलीभावात् ह्रासवृद्धी प्रकीर्त्तिते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ भागवतमते दैर्घ्ये १०००० दशमहस्रयोजनानि प्रस्थे २००० द्विसहस्रयोजनानि । यथा । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा- गिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्व- स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम- कूटो हिमालय इति प्रागायता यथा नीला- दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष- भारतानां यथासंख्यम् ॥ इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ŚṚṄGAVĀN I :
1) General. A mountain. It is situated to the north of the region called “Ilāvṛtta”. Devī Bhāgavata, 8th Skandha refers to three mountains--Nīlagiri, Śvetagiri, and Śṛṅga- vān--which are the sources of many rivers and which stand at intervals of 2,000 miles.
2) Other details
(i) Arjuna crossed this mountain and entered Kuru- varṣa in the course of his triumphal campaign over the northern land.
(ii) This mountain is rich in minerals, is of outstand- ing brilliance, and is the abode of Siddhas and Cāraṇas. (M.B. Bhīṣma Parva, Chapter 6, Verse 5).
(iii) Sañjaya spoke at length about this mountain to Dhṛtarāṣṭra. (M.B. Bhīṣma Parva, Chapter 8, Verse 8).
(iv) This mountain is glorious enough to be remembered with reverence at dawn and dusk. (M.B. Anuśāsana Parva, Chapter 165, Verse 32).
_______________________________
*7th word in left half of page 738 (+offset) in original book.
ŚṚṄGAVĀN II : An ancient sage. He was the son of Gālava. He married by force, a woman named Vṛddha- kanyā. After a night's married life, Vṛddhakanyā departed. The sage then renounced everything and followed her. (M.B. Śalya Parva, Chapter 82).
_______________________________
*8th word in left half of page 738 (+offset) in original book.
