सामग्री पर जाएँ

शृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृतम्, त्रि, (श्रा पाके + क्तः ।) “शृतं पाके ।” ६ । १ । २७ । इति शृभावः ।) पक्वक्षीराज्य- पयांसि । इत्यमरः ॥ शृतमन्नं विवर्ज्जयेदिति- त्वार्षम् । इति भरतः ॥ कथितम् । इति शब्द चन्द्रिका रत्नमाला च ॥ * ॥ अथ क्वाथविधिः । “पानीयं षोडशगुणं क्षुण्ण द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेत् ग्राह्यमष्टमांशावशेषितम् ॥ कर्षादौ तु पलं यावत् दद्यात् षोडशिकं जलम् । तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् । शृतः काथः कषायश्च निर्य्यूहः स निगद्यते ॥” क्वाथपानमात्रामाह । “मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा । जघन्या च पलार्ङ्ग्रेन स्नेहक्वाथौषधेन च ॥” तन्त्रान्तरे । “क्वाथद्रव्यपले वारि द्विरष्टगुणमिष्यते । चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम् ॥ दीप्तानलं महाकायं पाययेत् द्व्यञ्जलिं जलम् । अन्ये त्वर्द्धं परित्यज्य प्रसृतन्तु चिकित्सकाः ॥ क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् । पारम्पर्य्योपदेशेन वृद्धवैद्याः पलद्वयम् ॥” अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गुरुत्वाद्दीप्तानलं महाकायं पलद्वयं पायये- न्मध्यमाग्निमल्पकायं पलमात्रं पाययेत् । मात्रोत्तमा पलेन स्यादित्यादिवचनात् । “क्वाथे क्षिपेत् सितामशैश्चतुर्थाष्टमषोडशैः । वातपित्तकफातङ्के विपरीतं मधु स्मृतम् ॥ जीरकं गुग्गुलुं क्षारं लवणञ्च शिलाजतु । हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत् ॥ क्षीरं घृतं गुडं तैलं मूत्रं चान्यत द्रवं तथा । कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम् ॥ तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः । औषधं हेम रजतं मृद्भाजनपरिस्थितम् ॥ पिबेत् प्रमन्नहृदयः पीत्वा पात्रमधोमुखम् । विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “द्रव्यादापोत्थितात्तोये वह्निना परितापितात् । निःशृतो यो रसः पूतः स शृतः समुदाहृतः ॥” इति वैद्यकम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृत वि।

क्षीरादिषु_कृतपाकः

समानार्थक:शृत

3।1।95।2।3

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्. निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृत¦ त्रि॰ शृ--क्त।

१ पक्वे अमरः

२ क्वथिते जलादौ च
“द्रव्यादुत्थापितात्तोयात् वह्निना परितापितात्। गिःसृतोयो रसः पूतः स शृगः समुदःहृतः” वैद्यकोक्ते

३ द्रव्य-क्वाथजे रसे पु॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृत¦ mfn. (-तः-ता-तं) Boiled, (water, milk or Ghee.) E. श्रा to boil, aff. क्त, form irr.; or शृ-क्त; as applied to any other substances, the form is श्राण or श्रपित |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृत [śṛta], p. p.

Cooked; अयं सर्वः समस्ताङ्गः शृतः कृष्णमृगो मया Rām.2.56.28 (some editions give श्रित for शृत).

Boiled (water, milk &c.). -Comp. -पाक a. thoroughly cooked or boiled. -शीत a. boiled and cooked again.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शृत mfn. (fr. श्रा; See. श्रात)cooked , boiled ( opp. to आम, " raw " , and esp. said of water , milk , and ghee) RV. etc.

शृत n. cooked food , ( esp. ) boiled milk Br. A1s3vS3r.

शृत See. p. 1088 , col. 1(See. श्रीत, p.1098).

"https://sa.wiktionary.org/w/index.php?title=शृत&oldid=343423" इत्यस्माद् प्रतिप्राप्तम्