सामग्री पर जाएँ

शेखरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शेखरः, पुं, (शिखि गतौ + बाहुलकात् अरप्रत्य- येन साधुः ।) शिखावस्थितमाल्यम् । इत्य- मरः ॥ यथा, -- “शिखाविन्यस्तमालायामापीडः शेखरोऽपि च ॥” इति शब्दरत्नावली ॥ (यथा, माघे । ११ । ४६ । “नवकरनिकरेण स्पष्टबन्धूकसून- स्तवकरचितमेते शेखरं बिभ्रतीव ॥” शिरोभूषणमात्रम् । यथा, कुमारे । ७ । ३२ । “बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ॥”) गीतस्य ध्रुवविशेषः । तल्लक्षणं यथा, -- “द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत् प्रभोः । हंसके च रसे वीरे गीयते शेखरो ध्रुवः ॥” इति सङ्गीतदामोदरः ॥ लघुशेखरो यथा, -- “लघुर्गुरुर्भवेद्यत्र स भवेल्लघुशेखरः ॥” इति तत्रैव ॥ (शृङ्गम् । यथा, कथासरित्सागरे । २८ । १८९ । “ततोऽस्तगिरिशेखरं व्रजति वासरेशे शनैः सखीं पुनरुपागमप्रणयिणीं समापृच्छ्य ताम् । क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा जगाम वसतिं निजां प्रसवमेव सोमप्रभा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शेखरः [śēkharḥ], 1 A crest, chaplet, tuft, a garland of flowers worn on the head; कपालि वा स्यादथवेन्दुशेखरम् Ku.5.78; 7.42; नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं विभ्रतीव Śi.11.46;4.5; मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी Dk.; शीर्षे च शेखरको नित्यम् Nāg.3.2.

A diadem, crown.

A peak, summit.

The best or most distinguished of a class (at the end of comp.).

A kind of Dhruva or burden of a song. -रम् Cloves.

"https://sa.wiktionary.org/w/index.php?title=शेखरः&oldid=343569" इत्यस्माद् प्रतिप्राप्तम्