शेफः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफः, पुं, शिश्नः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १० । ७ । ३८ । “विकटाः काललम्बौष्ठा बृहच्छेफाण्ड- पिण्डकाः ॥”)
शेफः, [स्] क्ली, (शेते रेतःपातानन्तरमिति । शी + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा० ४ । २०० । इति असुन् । अत्र केचित् फ चेति पठन्ति इत्यतः फः ।) शिश्नः । इत्य- मरः ॥ शुकपाते सति शेते पतति इति शेफः । शीङ् धातोर्नाम्नीति फस्प्रत्ययः । शेफसशेपसी शेफशेपौ शैवश्चेति पञ्च रूपाणि भवन्तीत्या चार्य्याः । इति भरतः ॥ (यथा, बृहत्सहि तायाम् । ६८ । ८ । “ऋजुवृत्तशेफसो लगुशिरालशिश्नाश्च धनवन्तः ॥”)
