शेफालिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफालिका, स्त्री, (शेफालि + स्वार्थे कन् ।) पुष्प- वृक्षविशेषः । शिउली इति भाषा ॥ (यथा, -- “शेफालिकां विदलितामवलोक्यं तन्वी पाणान् कथञ्चिदपि धारयितुं प्रभुः सा । आकर्ण्य सस्प्रति रुतं चरणायुधानां कि~वा व्यवस्यति न वेद्मि तपस्विनी सा ॥” इत्यूद्भटः ॥) तत्पर्य्यायः । सुवहा २ निर्गुण्डी ३ नीलिका ४ । इत्यमरः ॥ चत्वारि शेफालिकामात्रे । शिय- लीति ख्यातनीलपुष्पायां शेफालिकामिति केचित् । शेफालिकादिद्वयं शेफालिकामात्रे निर्गुण्ड्यादिद्वयं नीलपुष्पशेफालिकायामिति केचित् । इति तट्टीकायां भरतः ॥ शेफाली ५ मलिका ६ रजनीहासा ७ निशिपुष्पिका ८ । मा शुक्ला चेत् श्वेतसुरस ९ भूतवेशी १० । इति शब्दरत्नावली ॥ शुक्लाङ्गी ११ शीत- मञ्जरी १२ विजया १३ वातारिः १४ भूत- केशी १५ । अस्या मुणाः । कटुत्वम् । तिक्त- त्वम् । उष्णत्वम् । रूक्षत्वम् । वातकफाङ्ग- मन्धिवातगुदवातादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफालिका स्त्री।
कृष्णनिर्गुण्डी
समानार्थक:शेफालिका,सुवहा,निर्गुण्डी,नीलिका
2।4।70।2।1
भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा। शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफालिका¦ स्त्री शेरते इति शेपाः अलयो यत्र वा कप्। (शिउलि) पुष्पवृक्षे अमरः
“शेफालिका कटूष्णा चतिक्ता रूक्षा च वातहृत्। कफाङ्गसन्धिवातघ्नी शृतवा-तादिदोषहृत्” राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफालिका¦ f. (-का) A flower, (Nyctanthes arbor-tristis.) E. शेफा sleeping, from शी with फ aff., अलि a bee, fem. aff. ङीष्, कप् added; also शेफालि |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शेफालिका f. id. Sus3r. R2itus. etc. ( accord. to some also " the fruit of the above tree " ; accord. to others " Nyctanthes Arbor Tristis ").