सामग्री पर जाएँ

शैलजम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शैलजम्, क्ली, (शैले पर्व्वते जायते इति । जन + डः ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । शीत- शिवम् २ शैलेयम् ३ शिलासनम् ४ शिलेयम् ५ शीतलम् ६ शैलम् ७ कालानुसार्य्यम् ८ शैलकम् ९ वृद्धम् १० कालानुसारि ११ अश्वपुष्पम् १२ शैलख्यम् १३ शिलापुष्पम् १४ गृहम् १५ इतिड रत्नमाला ॥ अस्य गुणाः शैलेयशब्दे द्रष्टव्याः ॥ पर्व्वतजाते, त्रि, ॥

"https://sa.wiktionary.org/w/index.php?title=शैलजम्&oldid=172034" इत्यस्माद् प्रतिप्राप्तम्