शैलेयम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शैलेयम्, क्ली, (शिलायां भवम् । शिला + ढक् ।) शैलजाख्यगन्धद्रव्यम् । शेलेयक इति रन्दूच इति छरिला इति च ख्यातम् । तत्पर्य्यायो यथा, -- “शेलेयं शैलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्णं तथा कालानुसार्य्यकम् ॥ शिलोत्थञ्च शिलादद्रुः शैलाजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम ॥” अस्य गुणाः । “शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥” इति राजनिर्घण्टः ॥ आंप च । “शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम् । शैलेयं शीतलं हृद्यं कफपित्तहरं लघु । कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् ॥” इति भावप्रकाशः ॥ * ॥ तालपर्णी । सैन्धवम् । इति मेदिनी ॥
शैलेयम्, त्रि, (शैले भवम् । शैल + ढक् ।) शैल- सम्भवम् । इति हेमचन्द्रः ॥ शिलातुल्यम् । इति शब्दरत्नावली ॥ (शिलेव । शिला + “शिलाया ढः ।” ५ । ३ । १०२ । इति योग- विभागेन ढञ् ॥)
